10 मुग्धाधिकरणम्

मुग्धेऽर्धसंपत्तिः परिशेषात् ॥3.2.10॥
किं मूर्छा मरणादर्थान्तरम्, उत मरणमेवेति संशयः । सर्वेन्द्रियप्राणव्यापारोपरतेः मरणमेवेति पूर्वः पक्षः । आकारवैरूप्येण सूक्ष्मप्राणास्तित्वावगतेः मरणायार्धसंपत्तिरिति सिद्धान्तः । सूत्रार्थस्तु - मुग्धे - मूर्छिते पुरुषे याऽवस्था, सा मरणायाऽर्धसंपत्तिः । कुतः? परिशेषात् । प्राणादिसर्वव्यापारोपरतेः न जागराद्यवस्था, नच गतप्राणा, आकारवैलक्षण्येन सूक्ष्मप्राणास्तित्वावगतेः, मूर्च्छितस्यैव कस्यचित्पुनर्जीवनदर्शनाच्च न मरणमिति परिशेषान्मरणायार्धसंपत्तिरित्यगम्यते ॥