09 कर्मानुस्मृतिशब्दविध्यधिकरणम्

स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥3.2.9॥
किं सुषुप्त एव प्रबोधकाले उत्तिष्ठति, स एव वा अन्यो वेत्यनियम इति संशयः । सुषुप्तस्य सर्वोपाधिविनिर्मुक्तस्य ब्रह्मणि संपन्नस्य मुक्तादविलक्षणत्वेन प्राचीनशरीरसंबन्धाभावात्स एवेति नियमो न संभवतीति पूर्वः पक्षः । सुषुप्तस्य ब्रह्मज्ञानाभावेन पूर्वकृतस्य कर्मणः तेनैवोपभोक्तव्यत्वात्, सोऽहमिति प्रत्यभिज्ञानात्, * त इह व्याघ्रो वा सिंहो वा इत्यारभ्य यद्यद्भवन्ति तथा भवन्ति इति शब्दात्, मोक्षसाधनविध्यानर्थक्याच्च स एवोत्तिष्ठतीति राद्धान्तः । न चासौ शरीरेन्द्रियसंबन्धविनिर्मुक्तः, अपि तु करणकलेबरप्रवर्तनायासादाश्वासाय ब्रह्मण्यपीतः पुनराश्वस्तः प्रवर्तनायोत्तिष्ठति । सूत्रमपि व्याख्यातम् ॥