08 तदभावाधिकरणम्

तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥3.2.7॥
नाड्यः पुरीतत् ब्रह्म च सुषुप्तिस्थानत्वेन श्रूयन्ते; किमेषां विकल्पः, उत समुच्चय इति संशयः । विकल्प इति पूर्वः पक्षः, * आसु तदा नाडीषु सृप्तो भवति * ताभिः प्रत्यवसृप्य पुरीतति शेते * सता सोम्य तदा सम्पन्नो भवति * इति त्रयाणां नैरपेक्ष्यप्रतीतेः । राद्धान्तस्तु - प्रासादखट्वापर्यङ्कवत् कार्यभेदेन समुच्चये संभवति पाक्षिकबाधगर्भविकल्पो न युक्त इति समुच्चयो न्याय्यः । तत्र पर्यङ्कस्थानीयं ब्रह्म, यतः पर्यङ्कवत्साक्षाद्ब्रह्म सुषुप्तिस्थानम् । सूत्रार्थस्तु - तदभावः - स्वप्नाभावः, सुषुप्तिरित्यर्थः । सुषुप्तिः नाडीष्वात्मनि च, चकारात्पुरीतति च तच्छ्रुतेः - त्रयाणां सुषुप्तिस्थानत्वश्रुतेः । उक्तेन न्यायेन समुच्चयो न्याय्य इत्यभिप्रायः ॥

अतः प्रबोधोऽस्मात् ॥3.2.8॥
अस्मात् – ब्रह्मणः प्रबोधश्रुतिरत एवोपपद्यते; * सत आगम्य न विदुस्सत आगच्छामहे * इति श्रूयते ॥