07 सन्ध्याधिकरणम्

तृतीयाध्यायस्य द्वितीय पादः
सन्ध्ये सृष्टिराह हि ॥3.2.1॥
स्वप्नमधिकृत्य श्रूयते - * न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथस्सृजते* इत्यारभ्य, अथ वेशान्तान्पुष्करिण्यस्स्रवन्त्यस्सृजते स हि कर्ता* इति । किं स्वाप्नानामप्यर्थानां स्रष्टा जीव एव, उत परमात्मेति संशयः । स्वप्नदृशो जीवस्य सन्निधानात् * स हि कर्तेति स एव परामृश्यते, जीवस्यापि सत्यसङ्कल्पत्वं प्रजापतिवाक्योदितमिति स एव स्रष्टेति पूर्वः पक्षः । राद्धान्तस्तु - जीवस्य सत्यसङ्कल्पत्वं स्वाभाविकमपि संसारदशायां परमपुरुषसंकल्पात्तिरोहितमिति न जीवस्य सत्यसङ्कल्पमात्रेण स्रष्टृत्वमुपपद्यते । अतः परमपुरुष एव सकलेतरपुरुषानुभवाविषयान् तत्तत्पुरुषमात्रेणानुभाव्यान् तत्तत्कालावसानान् स्वाप्नानर्थान् सृजति । सूत्रार्थस्तु - सन्ध्ये - स्वप्ने, श्रूयमाणा रथादिसृष्टिः स्वप्नदृशा जीवेन कृता, कुत? आह हि - * स हि कर्तेति तस्यैव परामर्शादित्यर्थः ॥

निर्मातारं चैके पुत्रादयश्च ॥3.2.2॥
एनमेव जीवं निर्मातारं स्वाप्नानामर्थानाम् एके शाखिनोऽधीयते * य एषु सुप्तेषु जागर्ति कामंकामं पुरुषो निर्मिमाणः* इति । अत्र कामशब्दनिर्दिष्टाः काम्यमानतया पुत्रादय एव । चशब्दोऽवधारणे । अत्र हि * सर्वान् कामानिति कामशब्देन प्रस्तुतान् शतायुषः पुत्रपौत्रान्वृणीष्व इति विविनक्ति ॥

मायामात्रं तु कार्त्स्न्येनाऽनभिव्यक्तस्वरूपत्वात् ॥3.2.3॥
तुशब्दात्पक्षो विपरिवर्तते, न जीवेन सृष्टं स्वाप्नमर्थजातम्; अपि तु परमेश्वरमायामात्रं - सकलेतरपुरुषानुभवाविषयं तदेकानुभाव्यं तत्कालावसानमाश्चर्यरूपमर्थजातमीश्वरस्सृजतीत्यर्थः । जीवस्य स्वतः सत्यसङ्कल्पत्वादेः कृत्स्नस्य संसारदशायामनभिव्यक्तस्वरूपत्वात् तस्य हि सङ्कल्पमात्रेण स्रष्टृत्वं नोपपद्यते । *कामंकामं पुरुषो निर्मिमाणः इति च परमपुरुषमेव निर्मातारमाह - य एषु सुप्तेषु जागर्ति *तस्मिल्लोकाश्श्रितास्सर्वे तदु नात्येति कश्चन *इत्युपक्रमोपसंहारयोः परमपुरुषासाधारणधर्मप्रतीतेः, * स हि कर्तेति च तेनैकार्थ्यात् परमपुरुषमेवाह ॥

स्वाभाविकं चेज्जीवस्य सत्यसङ्कल्पत्वादिकम्, कथं नाभिव्यज्यत इत्याशङ्क्याह - पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥3.2.4॥
तुशब्दश्शङ्कानिवृत्त्यर्थः, परमपुरुषाभिध्यानादस्य स्वाभाविकं रूपमनादिकर्मप्रवाहेण कृतापराधतया तिरोहितम्; ततो ह्यस्य बन्धविपर्ययौ - ततः परमपुरुषसङ्कल्पादेव हि, अस्य - जीवस्य, बन्धविपर्ययौ - संसारमोक्षौ श्रूयेते - * को ह्येवान्यात्कः प्राण्यात्, यदेष आकाश आनन्दो न स्यात्, एष ह्येवानन्दयाति* परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते इत्यादौ ॥

देहयोगाद्वा सोऽपि ॥3.2.5॥
तिरोधानप्रकारमाह - सोऽपि - तिरोधानभावः, देहयोगाद्वा भवति, वाशब्दो विकल्पार्थः, व्यवस्थितश्च विकल्पः, देवमनुष्यादिदेहाकारपरिणताचिद्योगात्सृष्टिवेलायाम्, नामरूपविभागानर्हसूक्ष्मदशापन्नाचिद्योगेन प्रलयकाले ॥

इतश्च -
सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥3.2.6॥
स्वाप्ना रथादयो न जीवसङ्कल्पकृताः; यतस्स्वप्नः शुभाशुभयोस्सूचक इति श्रुतेरवगम्यते *यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात्तस्मिन् स्वप्ननिदर्शने । *अथ स्वप्ने पुरुषं कृष्णं कृष्णदन्तम् *इत्यादिषु । स्वप्नाध्यायविदश्चाचक्षते । जीवसङ्कल्पकृतत्वे हि सूचकत्वं न संभवति; स्वसङ्कल्पकृतत्वे हि शुभानामेव सूचकानार्थान् सृष्ट्वा तानेव पश्येत् । अतस्स्वाप्नानामर्थानां परमपुरुष एव स्रष्टा ॥