06 अन्याधिष्ठिताधिकरणम्

अन्याधिष्ठिते पूर्ववदभिलापात् ॥3.1.24॥
अवरोहन्तो जीवाः व्रीह्यादिभावेन जायन्त इति श्रूयते मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते इति । ते किं व्रीह्यादिशरीरा जायन्ते, उतान्यैः क्षेत्रज्ञैर्व्रीह्यादिशरीरैरधिष्ठितान्व्रीह्यादीनाश्लिष्यन्तीति संशयः । *जायन्ते इति वचनाद्व्रीह्यादिशरीरभोक्तारो जायन्त एवेति पूर्वःपक्षः । राद्धान्तस्तु - व्रीह्यादिजन्महेतुभूतकर्मविशेषाश्रवणाद्व्रीह्यादिसंश्लेषमात्रमेव । जायन्ते इति जन्मवचनमौपचारिकम् । ब्राह्मणादिशरीरभावे हि *रमणीयचरणा कपूयचरणाः इति जन्महेतुभूतं पुण्यपापरूपं कर्म श्रूयते । सूत्रार्थस्तु - अन्याधिष्ठिते - अन्यक्षेत्रज्ञाधिष्ठिते व्रीह्यादौ, संश्लेषमात्रम्, कुतः? पूर्ववदभिलापात् - आकाशादिभाववत्केवलव्रीह्यादिभावाभिलापात् जन्महेतुभूतकर्मानभिलापादित्यर्थः ॥

अशुद्धमिति चेन्न शब्दात् ॥3.1.25॥
यद्यपि व्रीह्यादिभावेन जायन्त इत्यत्र जन्महेतुभूतं कर्म न श्रुतम्, तथापि पूर्वश्रुतमिष्टादिकर्माग्नीषोमीयादि हिंसागर्भत्वेनाशुद्धम् । हिंसात्वेनाशुचिव्रीह्यादिजन्मनोऽपि हेतुर्भवतीति चेत्; न, अहिंसात्वशब्दात् - पशोर्हि संज्ञपनस्य स्वर्गावाप्तिसाधनभाववादिशब्दः श्रूयते - *हिरण्यशरीर ऊर्ध्वं स्वर्गं लोकमेति न वा उ वे तन्म्रियसे न रिष्यसि इत्यादिः ॥

रेतस्सिग्योगोऽथ ॥3.1.26॥
ततश्च व्रीह्यादिसंश्लेषमात्रम्, व्रीह्यादिभावानन्तरं रेतस्सिग्योगश्श्रूयते *यो यो ह्यन्नमत्ति यो रेतस्सिञ्चति तद्भूय एव भवति *इति । अत्र हि पुरुषसंश्लेषमात्रमेव श्रुतम्ः एवमेव व्रीह्यादिभावेऽपीत्यर्थः ॥

योनेश्शरीरम् ॥3.1.27॥
योनिप्राप्तेः पश्चादेवावरोहतो जीवस्य शरीरप्राप्तिः, तत्रैव सुखदुःखोपभोगात् । ततः प्रागाकाशादिषु तत्तत्संश्लेषमात्रमेवेत्यभिप्रायः ॥