05 नातिचिराधिकरणम्

नातिचिरेण विशेषात् ॥3.1.23॥
आकाशवायुधूमाभ्रमेघवर्षप्राप्तौ किं तत्रतत्र नातिचिरं तिष्ठति, उतानियम इति संशयः । अनियम इति पूर्वः पक्षः, नातिचिरेणेति विशेषवचनाभावात् । राद्धान्तस्तु - उत्तरत्र व्रीह्यादिभावे *अतो वै खलु दुर्निष्प्रपतरम् * इति विशिष्य चिरेण गमनवचनं ततः प्राचीनेष्वचिरगमनं द्योतयतीत्याकाशादियावद्व्रीह्यादिभावप्राप्ति नातिचिरं तिष्ठतीति ।सूत्रमपि व्याख्यातम् ॥