04 तत्स्वाभाव्यापत्त्यधिकरणम्

तत्स्वाभाव्यापत्तिरुपपत्तेः ॥3.1.22॥
धूमादिना चन्द्रमसं प्राप्तस्य प्रत्यवरोहप्रकार आम्नायते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवति अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति इति । अत्राकाशादिभावः, किं देवमनुष्यादिभाववदाकाशादिशरीरत्वम्, उत तत्सादृश्यापत्तिरिति संशयः । आकाशादिशरीरत्वमिति पूर्वः पक्षः । श्रद्धावस्थस्य सोमराजभाववत्, तत्र हि तच्छरीरत्वमेवोच्यते । राद्धान्तस्तु - आकाशादिप्राप्तौ सुखदुःखानुभवाभावात् तत्सादृश्यापत्तिरेव । सुखदुःखानुभवाय हि सोमादिशरीरत्वम् । सूत्रार्थस्तु - तत्स्वाभाव्यापत्तिः - आकाशादिसादृश्यापत्तिः, उपपत्तेः - सुखदुःखानुभवाभावोपपत्तेः ॥