अनिष्टादिकारिणामपि च श्रुतम् ॥3.1.12॥
विहिताकरणप्रतिषिद्धसेवारताः पापकर्माणोऽपि धूमादिना चन्द्रमसं गत्वा निवर्तन्ते, उत नेति संशयः । गत्वैव निवर्तन्त इति पूर्वः पक्षः, *ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तीति सर्वेषामविशेषेण चन्द्रगमनश्रुतेः । राद्धान्तस्तु - *अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्तीति धूमादिना चन्द्रगमनस्य पुण्यकर्मफलत्वश्रवणात् तद्रहिताः पापकर्माणो न गच्छन्तीति । * ये वै के चेतिवचनं सर्वेषां पुण्यकर्मणां चन्द्रगमनविषयम् । सूत्रार्थस्तु - अनिष्टादिकारिणामपि च श्रुतम् - अनिष्टादिकारिणामपि - इष्टापूर्ताद्यकुर्वतां पापिनामपि चन्द्रगमनमस्ति, *ये वै के चास्माल्लोकात् प्रयन्तीति यतोऽविशेषेण श्रुतम् ॥
इयांस्तु विशेषः -
संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥3.1.13॥
तुशब्दः शङ्कां व्यावर्तयति । इतरेषाम् - अनिष्टादिकारिणां चन्द्रारोहावरोहौ, संयमने - यमशासने यातनामनुभूयैव । (पापफलमनुभूय इतरेषां पापिनां चन्द्रारोहावरोहौ) । कुतः? तद्गतिदर्शनात् - पापिनां यमसदनगतिदर्शनात्, वैवस्वतं सङ्गमनं जनानाम् इत्यादौ ॥
स्मरन्ति च ॥3.1.14॥
*सर्वे चैते वशं यान्ति यमस्य भगवन्किल *इति पराशरादयस्स्मरन्ति च ॥
अपि सप्त ॥3.1.15॥
सप्तापि - पापकर्मणां गन्तव्यत्वेन सप्तापि रौरवादिनरकान् स्मरन्ति ॥
तत्रापि तद्व्यापारादविरोधः ॥3.1.16॥
ननु सप्तसु लोकेषु गच्छतां कथं यमसदनप्राप्तिः? तत्राह - तेष्वपि सप्तसु रौरवादिलोकेषु तव्द्यापारात् - यमाज्ञयैव गमनादविरोधः । अतोऽनिष्टादिकारिणामपि यमलोकं प्राप्य यमयातनाश्चानुभूय पश्चाच्चन्द्रारोहावरोहौ भवतः ॥
इति प्राप्त उच्यते -
विद्याकर्मणोरिति तु प्रकृतत्वात् ॥3.1.17॥
तु शब्दः पक्षव्यावृत्त्यर्थः । नच पापकर्मणामर्चिरादिना ब्रह्मगमनं, धूमादिना चन्द्रगमनं च संभवति, तयोर्विद्याकर्मणोः फलत्वात् । कथमिदमवगम्यते तत्फलत्वम्? इति प्रकृतत्वात् । इत्थं प्रकृतत्वात् । विद्याकर्मणी हि प्रकृत्य तत्फलत्वेन गतिद्वयं प्रतिपाद्यते, तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसंभवन्तीति, *अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्तीति च । पापिनां विद्यारहितत्वेन ब्रह्मगमनाभाववत् पुण्यकर्मरहितत्वेन चन्द्रगमनमपि न संभवतीत्यर्थः ॥
पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति पञ्चमाहुत्या देहारम्भश्रवणात् तस्याश्चन्द्रगमनपूर्वकत्वेन पापिनामपि देहारम्भाय चन्द्रगमनमवश्यम्भावीत्याशङ्क्याह -
न तृतीये तथोपलब्धेः ॥3.1.18॥
केवलपापकर्माणः तृतीयस्थानम् । न तृतीये स्थाने देहारम्भाय पञ्चमाहुत्यपेक्षाऽस्ति, तथोपलब्धेः - वेत्थ यथा केनासौ लोको न संपूर्यते इति द्युलोकस्याप्राप्ता क इति प्रश्नस्य प्रतिवचने अथैतयोः पथोर्न कतरेण चन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयं स्थानं तेनासौ लोको न संपूर्यते इति तृतीयस्य स्थानस्य द्युलोकाप्राप्तिश्रवणात् तस्य देहारम्भे पञ्चमाहुत्यनपेक्षत्वं ह्युपलभ्यते ॥
स्मर्यतेऽपि च लोके ॥3.1.19॥
पुण्यकर्मणामपि केषाञ्चिद् द्रौपद्यादीनां देहारम्भे पञ्चमाहुत्यनपेक्षत्वं तस्य शिष्टलोकेऽपि च स्मर्यते ॥
दर्शनाच्च ॥3.1.20॥
श्रुतावपि दृश्यते केषाञ्चिद्देहारम्भे पञ्चमाहुत्यनपेक्षत्वं तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्याण्डजं जीवजमुद्भिज्जम् इति स्वेदजोद्भिज्जयोर्देहारम्भे पञ्चमाहुत्यनपेक्षत्वम् ॥
आण्डजं जीवजमुद्भिज्जमित्यत्र स्वेदजस्य ग्रहणं न दृश्यत इत्याशङ्क्याह -
तृतीयशब्दावरोधः संशोकजस्य ॥3.1.21॥
आण्डजं जीवजमुद्भिज्जमित्यत्र तृतीयेनोद्भिज्जशब्देन संशोकजस्य स्वेदजस्य अवरोधः - संग्रह इत्यर्थः । अतः केवलपापकर्मणां चन्द्रारोहावरोहौ न संभवतः ॥