02 कृतात्ययाधिकरणम्

कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ॥3.1.8॥
धूमादिना गतो निर्वतमानो जीवः सानुशयो निवर्तते, उत नेति संशयः । नेति पूर्वः पक्षः । अनुशयो हि भुक्तशिष्टं कर्म । *यावत्संपातमुषित्वा प्राप्यान्तं कर्मणः इत्यादिश्रुतिभ्यः कृत्स्नस्य कर्मणोऽनुभूतताप्रतीतेः नानुशयवान्निवर्तते । राद्धान्तस्तु - *तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं क्षत्रिययोनिं वैश्ययोनिं वा अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं सूकरयोनिं वा चण्डालयोनिं वा * इति रमणीयचरणा ब्राह्मणादियोनिं, कपूयचरणाः - कुत्सितकर्माणः श्वसूकरादियोनिं प्रतिपद्यन्त इति श्रुतेः, प्राप्यान्तं कर्मणः इत्यादिश्रुतिः फलप्रदानप्रवृत्तकर्मविषयेति सानुशयो निवर्तते ।
सूत्रार्थस्तु - कृतात्यये - कृतस्य पूर्वकर्मणोऽत्यये, अनुशयवान् - भुक्तशिष्टकर्मवान्निवर्तते, कुतः? दृष्टस्मृतिभ्याम् - श्रुतिस्मृतिभ्यामवगम्यते । तद्य इह रमणीयचरणाः इत्यादिश्रुतिः, *ततः परिवृत्तौ कर्मफलशेषेण जातिं रूपम् * इत्यादिका स्मृतिः, यथेतमनेवं च - आरोहणप्रकारेण प्रकारान्तरेण च निवर्तन्ते । चन्द्रमसः स्थानादाकाशमित्यारोहणक्रमेणावरोहन्ति, वायुधूमाभ्रादिना प्रकारान्तरेण च ॥

चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः ॥3.1.9॥
रमणीयचरणाः इति रमणीयाचारस्य स्मृतिविहितस्य ब्राह्मण्यादिप्राप्तिसाधनत्वश्रवणात् न सकर्मा प्रत्यवरोहतीति चेत्, तन्न, चरणश्रुतिः कर्मोपलक्षणार्थेति कार्ष्णाजिनिराचार्यो मन्यते, पुण्यस्यैव कर्मणस्सुखप्राप्तिसाधनत्वात् ॥

आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥3.1.10॥
स्मृतिविहितस्याचारस्याकिञ्चित्करत्वेनानर्थक्यं प्रसज्यत इति चेन्न, तदपेक्षत्वात् - आचारापेक्षत्वात्सुखसाधनभूतपुण्यकर्मणः, सन्ध्याहीनोऽशुचिर्नित्यमनर्हस्सर्वकर्मसु इति सर्वं हि पुण्यकर्माचारापेक्षमेवेति कार्ष्णाजिनेर्मतम् ॥

सुकृतदुष्कृते एवेति तु बादरिः ॥3.1.11॥
तुशब्दः पूर्वमतव्यावृत्त्यर्थः, रमणीयचरणाः, कपूयचरणाः इति चरणशब्देन सुकृतदुष्कृते एव कर्मणी प्रतिपाद्येते, पुण्यं कर्माचरतीति चरतेः कर्मणि प्रसिद्धेः, न लक्षणा न्याय्येति बादरिर्मन्यते । इदमेव सूत्रकाराभिप्रेतम्, तुशब्देन, पूर्वमताद्व्यावृत्तेः सुकृतदुष्कृते एवेति व्यावर्तनात् । *आनर्थक्यमिति चेन्न तदपेक्षत्वादिति तु स्वीकृतम् ॥