तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥3.1.1॥
देही देहान्तरगमने देहकारणभूतैर्भूतसूक्ष्मैस्संयुक्तो गच्छति, नेति संशयः । न संयुक्तो गच्छतीति पूर्वः पक्षः, देहारम्भाय तत्रतत्र भूतसूक्ष्माणां सुलभत्वात् । राद्धान्तस्तु - पञ्चाग्निविद्यायां *वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति *इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति इति प्रश्नप्रतिवचने आम्नायेते । देहारम्भिका आपस्त्रिवृत्करणेन भूतान्तरसंसृष्टाः द्युलोकपर्जन्यपृथिवीपुरुषरूपाग्निषु जीवेन सह प्रविष्टाः पञ्चम्यामाहुतौ योषिदग्निप्रवेशवेलायां पुरुषशब्दाभिलपनीया भवन्तीति प्रतीयते । पुरुषाकारतां भजन्त इत्यर्थः । अतो भूतसूक्ष्मैस्संपरिष्वक्त एव गच्छतीति । सूत्रार्थस्तु – तदन्तरप्रतिपत्तौ – संज्ञामूर्तिकॢप्तिः इत्यत्र मूर्तिशब्देन देहः प्रस्तुतः तच्छब्देन परामृश्यते । देहान्तरप्रतिपत्तौ रंहति संपरिष्वक्तः – जीवो भूतसूक्ष्मैस्संपरिष्वक्तो गच्छति । कुतः प्रश्ननिरूपणाभ्यां – पञ्चाग्निविद्यान्तर्गतप्रश्नप्रतिवचनाभ्यां तथाऽवगम्यत इत्यर्थः ॥
कथमविशेषेणाप्छब्देन सर्वेषामभिधानमित्याशङ्क्याह -
त्र्यात्मकत्वात्तु भूयस्त्वात् ॥3.1.2॥
तु शब्दश्शङ्कानिवृत्त्यर्थः । अपां त्रिवृत्करणेन त्र्यात्मकत्वादाप इति भूतान्तरसंसृष्टा आपोऽभिधीयन्ते, अपां भूयस्त्वात् आधिक्यादप्छब्देनाभिधानम् ॥
प्राणगतेश्च ॥3.1.3॥
इतश्च भूतसूक्ष्मैस्संयुक्तो याति । * तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणामनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति * इति प्राणानामिन्द्रियाणां जीवेन सह गमनश्रुतेः इन्द्रियाणां देहाश्रयत्वेन देहोऽपि भूतसूक्ष्मरूपेण गच्छतीति गम्यते । स्मर्यते च *मनष्षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति इत्यादिना ॥
अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥3.1.4॥
यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यम्* इति मरणवेलायां वागादीनामग्न्यादिष्वप्ययश्रुतेर्जीवेन सह गमनश्रुतिरन्यथा नेयेति चेत्, तन्न, भाक्तत्वात् तत्र वागादिशब्दानाम् । वागाद्यभिमानिदेवतासु हि तत्र वागादयश्शब्दाः, ओषधीर्लोमानि वनस्पतीन्केशाः इत्यनपियद्भिर्लोमादिभिस्सहपाठात् ॥
प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥3.1.5॥
प्रथमे - द्युलोकाग्निहोमे अपामश्रवणात् आपो भूतान्तरसंसृष्टा गच्छन्तीति वक्तुं न शक्यते, तत्र हि तस्मिन्नेतस्मिन्नग्नौ देवाश्श्रद्धां जुह्वति इति श्रद्धैव होम्यत्वेन श्रूयत इति चेत्, न, ताः - आप एव हि श्रद्धाशब्देनोच्यन्ते, प्रतिवचनस्य प्रश्नानुगुण्योपपत्तेः । *वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति * इत्यपां पुरुषवचस्त्वप्रकारे पृष्टे स एव हि प्रतिवक्तव्यः, अतश्श्रद्धाशब्देन ता आप एवोच्यन्ते । श्रद्धा वा आपः इति श्रूयते ॥
अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥3.1.6॥
आपः पुरुषवचसो भवन्ति * श्रद्धां जुह्वति* इति द्युलोकादिष्वाप एव हि गच्छन्तीति श्रूयते, न तत्परिष्वक्तो जीवः । अतः प्रश्नप्रतिवचनयोर्जीवस्याश्रुतत्वात्तत्संयुक्तो जीवो गच्छतीति न शक्यते वक्तुमिति चेत्; तन्न, इष्टादिकारिणां प्रतीतेः - उत्तरत्र अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति इत्यादौ इष्टादिकारिणां जीवानां द्युलोकादिगमनपुनरावृत्तिप्रकारवचने द्युलोकाग्निसम्बन्धस्याप्यप्छब्दवाच्यस्य सोममापन्नस्य प्रत्यभिज्ञानादत्राप इति तत्संयुक्तो जीव एवोच्यते ॥ आकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति*इति धूमादिना गतस्य देवैर्भक्ष्यमाणत्वश्रवणात्, जीवस्याऽनदनीयत्वाच्च न जीवस्तत्रोक्त इत्याशङ्क्याह –
भाक्तं वाऽनात्मवित्त्वात् तथा हि दर्शयति ॥3.1.7॥
वा शब्दश्शङ्काव्यावृत्त्यर्थः । * तं देवा भक्षयन्ति इति भक्ष्यत्ववचनं भाक्तम् - केवलेष्टादिकारिणामनात्मवित्त्वाद्देवोपकरणत्वाभिप्रायम् । अनात्मविदः केवलेन्द्रादिदेवयाजिनो हि देवान्प्राप्य तदुपकरणं भवन्ति । तथा हि दर्शयति श्रुतिः * यथा पशुरेवं स देवानाम्* इति । अतो भूतसूक्ष्मैस्संपरिष्वक्तो जीवो रंहति ॥