33 संज्ञामूर्तिकॢप्त्यधिकरणम्

संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥2.4.17॥
किं प्रपञ्चव्यष्टिसृष्टिः जीवभूतचतुर्मुखात्, उत तच्छरीरकात्परमात्मन एवेति संशयः । केवलाच्चतुर्मुखादिति पूर्वः पक्षः, *अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति व्यतिरेकश्रुतेः । जीवस्य परमात्मांशत्वेन व्याकरवाणीत्युत्तमपुरुषनिर्देशोऽपि कथंचिदुपपद्यते । राद्धान्तस्तु - *नामरूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति त्रिवृत्करणं कुर्वत एव नामरूपव्याक्रियोपदेशात्परमात्मन एव नामरूपव्याकरणरूपव्यष्टिसृष्टिः । त्रिवृत्करणं तु न चतुर्मुखेन कर्तुं शक्यम्, अण्डसृष्ट्युत्तरकालभावित्वाच्चतुर्मुखोत्पत्तेः, त्रिवृत्कृतैरेव तेजोबन्नैरण्डसृष्टिसंभवाच्च । *तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः । इति हि स्मर्यते । *नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना । नाशक्नुवन् प्रजास्स्रष्टुमसमागम्य कृत्स्नशः ॥ समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । महदादिविशेषान्ता ह्यण्डमुत्पादयन्ति ते ॥ इति च । अतश्चतुर्मुखशरीरकात्परमात्मन एव व्यष्टिसृष्टिः । एवं सति व्याकरवाणीत्युत्तमपुरुषनिर्देशस्समञ्जसः । अनेन जीवेन इति व्यतिरेकनिर्देशोऽपि जीवशरीरकेणात्मना इत्यन्वयात् समञ्जसः । जीवशब्दस्तेजःप्रभृतिशब्दवज्जीवशरीरकब्रह्मवाचीति ह्युक्तम् । *अनेन जीवेनात्मनेति सामानाधिकरण्यञ्च मुख्यम्; *अनुप्रविश्य नामरूपे व्याकरवाणीति समानकर्तृकत्वनिर्देशश्च । सूत्रार्थस्तु - संज्ञामूर्तिकॢप्तिस्तु - तुशब्दश्शङ्काव्यावृत्त्यर्थः । नामरूपकॢप्तिः परमात्मन एव; कुतः? त्रिवृत्कुर्वत उपदेशात् - त्रिवृत्करणं कुर्वत एव नामरूपव्याकरणोपदेशात् । त्रिवृत्करणं तु परमात्मन एव कर्मेत्युक्तम् ।

अन्नमशितं त्रेधा विधीयते इत्यादिना चतुर्मुखसृष्टवस्तुषु त्रिवृत्करणप्रकारो ह्युपदिश्यते; अतश्चतुर्मुखेन केवलेन तच्छक्यमित्याशङ्क्याह -
मांसादि भौमं यथाशब्दमितरयोश्च ॥2.4.18॥
तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति निर्दिष्टं त्रिवृत्करणम् अन्नमशितं त्रेधा विधीयते इत्यादिना नोपदिश्यते; तस्य यस्स्थविष्ठो धातुस्तत्पुरीषं यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मनः इति मांसाद्यपि हि भौममेवोपदिश्यते । *अन्नमशितं त्रेधेति प्रक्रमात्, अन्नमयं हि सोम्य मनः इति वाक्यशेषाच्च । तेजोबन्नानां त्रिवृत्करणप्रकारे ह्युपदिश्यमाने मांसमनसोः पुरीषाद्भौमादणीयस्त्वेनाप्यत्वं तैजसत्वं च प्रसज्यते । तथेतरयोरप्यप्तेजः पर्याययोः आपः पीताः तेजोऽशितम् इति त्रयाणां भागानां यथाशब्दमाप्यत्वं तैजसत्वमेवोपदिश्यते । तत्रापि हि *आपः पीताः *तेजोऽशितमित्युपक्रमः; वाक्यशेषश्च आपोमयः प्राणः, तेजोमयी वाक् इति । प्रागुक्तत्रिवृत्करणप्रकारे हि मूत्रप्राणयोस्स्थविष्ठत्वाणीयस्त्वाभ्यां भौमत्वतैजसत्वप्रसक्तिः । *तेजोऽशितमित्यत्रापि पूर्वयोर्भौमत्वाप्यत्वप्रसक्तिः । अतोऽत्र प्रागेव त्रिवृत्कृतस्यान्नादेस्स्वस्यैव त्रेधा परिणाम उपदिश्यते ॥

प्रागेव त्रिवृत्कृतं चेत् - कथं केवलान्नादिशब्दैरुच्यते इत्यत्राह -
वैशेष्यात्तु तद्वादस्तद्वादः ॥ (२-४-१९)
वैशेष्यं - विशेषभावः । त्रिवृत्कृतेऽप्येकैकस्मिंस्तत्रतत्रान्नाद्याधिक्यरूपविशेषभावादन्नादिवादः । द्विरुक्तिरध्यायपरिसमाप्तिद्योतनार्था ॥१९॥
इति संज्ञामूर्तिकॢप्त्यधिकरणम् ॥८॥
इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे द्वितीयस्याध्यायस्य चतुर्थः पादः ॥४॥
समाप्तश्चाध्यायः ॥२॥