32 इन्द्रियाधिकरणम्

त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥2.4.15॥
किं प्राणशब्दनिर्दिष्टाः सर्व एवेन्द्रियाणि, उत श्रेष्ठव्यतिरिक्ताः प्राणा इति संशयः । सर्व एवेति पूर्वः पक्षः; सर्वेषामविशेषेण प्राणशब्दनिर्देशात्, करणत्वाच्च । राद्धान्तस्तु - श्रेष्ठव्यतिरिक्ताः प्राणा इन्द्रियाणि, तेष्वेवेन्द्रियशब्दनिर्देशात्; *इन्द्रियाणि दशैकञ्च एकादशं मनश्चात्र इति । एषामपि प्राणशब्दनिर्देशः प्राणाधीनवृत्तित्वेन । तथा च श्रुतिः त एतस्यैव सर्वे रूपमभवन् - तस्मादेत एतेनाख्यायन्ते इति । रूपमभवन् - शरीरमभवन्, तदधीनवृत्तयोऽभवन्नित्यर्थः । सूत्रार्थस्तु - श्रेष्ठादन्यत्र ये प्राणाः; त इन्द्रियाणि, तेष्वेव तद्व्यपदेशात् - इन्द्रियव्यपदेशात् ॥

भेदश्रुतेर्वैलक्षण्याच्च ॥2.4.16॥
‘एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि चे’ति समनस्केन्द्रियेभ्यो भेदेन प्राणस्योत्पत्तिश्रुतेः, इन्द्रियेषूपरतेष्वपि प्राणवृत्तेर्वृत्तिवैलक्षण्याच्च ॥
इति इन्द्रियाधिकरणम् ॥