ज्योतिराद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात् ॥2.4.13॥
अग्न्यादीनां जीवस्य चेन्द्रियाधिष्ठानं परमात्मायत्तमिति *परात्तु तच्छ्रुतेरित्युक्तमेव स्मारयति विषयव्याप्तिज्ञापनाय । प्राणवता जीवेन सह, ज्योतिरादेः - अग्न्यादेः वागाद्यधिष्ठानम्, तदामननात् - परमात्मामननाद्भवति । आमननम् - आभिमुख्येन मननम्; तत्सङ्कल्पादेव भवतीत्यर्थः; योऽग्नौ तिष्ठन् … योऽग्निमन्तरो यमयति इत्यादिशब्दात् ॥
तस्य च नित्यत्वात् ॥2.4.14॥
सर्वेषामात्मतयाऽनुप्रविश्य, सर्वनियमनस्य नित्यत्वात् - परमात्मनः अवर्जनीयत्वादित्यर्थः, तत्सृष्ट्वा, तदेवानुप्राविशत् इति श्रुतेः ॥
इति ज्योतिराद्यधिष्ठानाधिकरणम् ॥