अणुश्च ॥2.4.12॥
किमयं प्राणस्सर्वगतः, उताणुरिति संशयः । सर्वगत इति पूर्वः पक्षः, सम एभिस्त्रिभिर्लोकैस्समः इत्यादिना प्राणस्यानन्त्यव्यपदेशात् । राद्धान्तस्तु - तमुत्क्रामन्तं प्राणोऽनूत्क्रामति इत्युत्क्रान्तिवचनादिन्द्रियवत्प्राणश्चाणुः । एवमणुत्वे निश्चिते सति सर्वस्य प्राणायत्तस्थितित्वेन वैभववादः । सूत्रमपि व्याख्यातम् ।
इति श्रेष्ठाणुत्वाधिकरणम् ॥