न वायुक्रिये पृथगुपदेशात् ॥2.4.8॥
किमयं श्रेष्ठप्राणो वायुमात्रम्, उत तत्क्रिया, अथ वायुरेव कंचन विशेषमापन्नः? इति संशयः । वायुमात्रमिति प्रथमः पक्षः, यः प्राणस्स वायुः इति व्यपदेशात् । वायुमात्रे प्राणप्रसिद्ध्यभावात्, उच्छ्वासनिश्वासरूपवायुक्रियायां प्राणप्रसिद्धेः, वायोः, क्रियाविशेष एव प्राण इति द्वितीयः पक्षः । राद्धान्तस्तु - न वायुमात्रं, तत्क्रिया वा प्राणः; अपि तु देहधारणयोग्यतादिरूपविशेषमापन्नो वायुः, एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च, खं वायुः इति वायुप्राणयोः पृथगुत्पत्त्युपदेशात् । क्रियायाश्च पृथगुपदेशो न संभवति, तेजःप्रभृतिष्वदर्शनात् । चक्षुरादिकरणैस्सह जीवोपकरणतयोपदेशात्, देहेन्द्रियधारणरूपोपकाराधिक्याच्चक्षुरादिभ्यः प्राधान्यवचनाच्च न क्रियामात्रम् । सूत्रार्थस्तु - न वायुक्रिये पृथगुपदेशात् - वायुमात्रं तत्क्रिया वा न प्राणः; पृथगुपदेशात् - *प्राणो जायते *खं वायुरिति हि पृथगुत्पत्तिरुपदिश्यते ॥
चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः।॥2.4.9॥
वायोः पृथगुपदिष्टतया तस्मादन्योऽयं प्राणः किमग्न्यादिवद्भूतान्तरमित्याशङ्क्याह - तुशब्दश्शङ्कानिवृत्त्यर्थः; प्राणो नाकाशादिवद्भूतान्तरम्; अपि तु वायुरेवावस्थान्तरमापन्नः चक्षुरादिवत् जीवोपकरणम् । तच्च उपकरणत्वमुपकरणभूतैरिन्द्रियैः सह शिष्ट्यादिभ्योऽवगम्यते । शिष्टिः - शासनम्, उपदेशः । उपदिश्यते ह्ययं प्राणश्चक्षुरादिभिस्सह प्राणसंवादादिषु । तत्सजातीयत्वे ह्येतदुपपद्यते । प्राणशब्दगृहीतेषु करणेष्वस्य * अथ ह य एवायं मुख्यः प्राणः* इति विशिष्याभिधानमादिशब्देनोक्तम् । तदपि तत्सजातीयत्वे हि संभवति ॥
अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॥2.4.10॥
अकरणत्वात् करणं क्रिया, अकरणत्वं क्रियारहितत्वम् । अक्रियत्वादस्य प्राणस्य जीवं प्रत्युपकारविशेषरूपक्रियारहितत्वाच्च यो दोष उद्भाव्यते; स नास्ति । यत उपकारविशेषरूपां शरीरेन्द्रियधारणात्मकक्रियां दर्शयति श्रुतिः - यस्मिन्नुत्क्रान्त इदं शरीरं पापिष्ठतरमिव दृश्यते स वश्श्रेष्ठः इति वागादिमुख्यप्राणपर्यन्तानि करणानि प्रत्येकमभिधाय प्राणोत्क्रमणे शरीरेन्द्रियशैथिल्याभिधानात् ॥
पञ्चवृत्तिर्मनोवत् व्यपदिश्यते ॥2.4.11॥
प्राणापानादिनामभेदेन पञ्चधाऽवस्थित एक एव प्राण इत्याह - प्राणापानादिवृत्तिभेदात्प्राण एव पञ्चधा व्यपदिश्यते; मनोवत् - यथैकमेव मनः कामादिवृत्तिभेदेन तैश्शब्दैरभिधीयत इति श्रुतिराह, कामस्सङ्कल्प इत्यारभ्य ह्रीर्धीर्भीरित्येतत्सर्वं मन एव इति । अपानादिसमानपर्यन्तं व्यपदिश्य एतत्सर्वं प्राण एव इति व्यपदेशात्प्राण एव पञ्चवृत्तिरित्यवगम्यते ॥
इति वायुक्रियाधिकरणम् ॥