28 प्राणाणुत्वाधिकरणम्

अणवश्च ॥२.४.६॥
इन्द्रियाणि किं सर्वगतानि, उताणुपरिमाणानीति संशयः । सर्वगतानीति पूर्वः पक्षः; त एते सर्व एव समास्सर्वेऽनन्ताः इति प्राणानामानन्त्यश्रवणात् । राद्धान्तस्तु - प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति इति श्रवणात्, परिमितत्वे सति अप्रत्यक्षत्वात् अणवः । आनन्त्यश्रुतिस्तु * अथ यो हैताननन्तानुपास्ते* इत्युपासनविधानादुपासनफलबाहुल्यविषया ॥

श्रेष्ठश्च ॥२.४.७॥
श्रेष्ठः प्राणश्चोत्पद्यते । नात्र न्यायातिदेशः, अधिकाशङ्काभावात् । पृथग्योगकरणमुत्तरचिन्तार्थम् । श्रेष्ठः पञ्चवृत्तिः प्राणः । प्राणश्रैष्ठ्यं तु प्राणसंवादे तस्य श्रैष्ट्याभिधानात् ॥
इति प्राणाणुत्वाधिकरणम् ॥