किं जीववदिन्द्रियाण्यपि नोत्पद्यन्ते, उत वियदादिवदुत्पद्यन्त इति संशयः । नोत्पद्यन्त इति पूर्वः पक्षः । प्रलयकाले अवस्थानश्रुतेः; उत्पत्तिवादाः जीवोत्पत्तिवादवन्नेयाः । असद्वा इदमग्र आसीत्… ऋषयो वा व तेऽग्रे सदासीत् के ते ऋषय इति प्राणा वा व ऋषयः इतीन्द्रियाणां तदानीं स्थितिश्श्रूयते । राद्धान्तस्तु - प्राक्सृष्टेरेकत्वावधारणात्, इन्द्रियाणाम् एतस्माज्जायते इत्युत्पत्तिवादात्, उत्पत्तिनिषेधनित्यत्ववचनाभावाच्च, वियदादिवदुत्पद्यन्ते । प्राणा वा व ऋषयः इति प्राणशब्दनिर्दिष्टः परमात्मा । सूत्रार्थस्तु - तथा प्राणाः - यथा जीवा नोत्पद्यन्ते तथा प्राणा अपि ॥
बहुत्वासंभवाद्बहुवचनश्रुतिर्गौणीत्याह - प्राणा वा इति बहुवचनश्रुतिर्गौणी, तदानीं बहुत्वासंभवात्, तस्य परमात्मन एव प्रागवस्थानश्रुतेश्च । [अत्र पाठान्तरम्] चस्त्वर्थः; तुशब्दात्पक्षो व्यावृत्तः । इन्द्रियाण्युत्पद्यन्त एव । कुतः? तत्प्राक् श्रुतेः - तस्य परमात्मन एव प्रागवस्थानश्रुतेः सदेव सोम्येदमग्र आसीत् आत्मा वा इदमेक एवाग्र आसीत् एको ह वै नारायण आसीत् इति । प्राणशब्दस्य प्राणमभिसंविशन्ति इति परमात्मन्यपि प्रसिद्धेः, *प्राणा वा व ऋषयः इति तस्यैव द्रष्टृत्वसंभवात् ॥
इतश्च;
वाचः परमात्मव्यतिरिक्तनामधेयस्य तत्पूर्वकत्वात् - वियदादिसृष्टिपूर्वकत्वादित्यर्थः; तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत इत्यादिश्रुतेः । अतः परमात्मैव प्राणशब्दनिर्दिष्टः ॥
इति प्राणोत्पत्त्यधिकरणम् ॥