अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥४२॥
किं जीवः परमात्मनोऽत्यन्तभिन्नः, उत परमात्मैवाज्ञः, अथ परमात्मैवोपाधिसंबद्धः, परमात्मांशो वेति संशयः। अत्यन्तभिन्न इति प्रथमः पक्षः, *पृथगात्मानं प्रेरितारं च मत्त्वा *तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति *अनीशश्चात्मा बध्यते भोक्तृभावात् *सर्वस्य वशी सर्वस्येशानः * इत्यादिभेदश्रुतेः, जीवपरमात्मनोः कर्मपरतन्त्रतातद्विपरीतत्वश्रुतेश्च; अभेदश्रुतयः “नरपतिरेव सर्वलोक” इतिवदौपचारिक्यः इति । भेदश्रुतीनामविद्वद्विषयतया वा उपाधिसंबन्धविषयतया वा अमुख्यवृत्तिसंभवादभेदश्रुतिमुख्यत्वाय अज्ञः परमात्मा, उपाधिसंबद्धो वा जीवः इति युक्तम् । राद्धान्तस्तु - नानात्त्वैकत्वव्यपदेशात् परमात्मनस्सत्यसङ्कल्पत्वसर्वज्ञत्वनिरवद्यत्वश्रुतेरज्ञत्वोपाधिसंबन्धाद्यनुपपत्तेर्जीवशब्दस्य जीवशरीरकपरमात्मवाचित्वेन * तत्त्वमसि * अयमात्मा ब्रह्मेति सामानाधिकरण्यस्य मुख्यत्वाच्छरीरशरीरिणोर्विशेषणविशेष्यभूतयोः स्वस्वरूपस्वभावभेदेन च भेदश्रुतेश्च मुख्यत्वाद्विशिष्टवस्त्वेकदेशतया च विशेषणस्य परमात्मांशो जीवः । जीवशरीरत्वं परमात्मनः * यस्यात्मा शरीरमित्यादिषु सिद्धम् । सूत्रार्थस्तु अंशः - परमात्मांशो जीवः, नानाव्यपदेशात् - भेदव्यपदेशात्, अन्यथा च - अभेदव्यपदेशाच्च; उक्तनीत्या उभयमुख्यत्वायेत्यभिप्रायः । दाशकितवादित्वमप्यधीयत एके * ब्रह्म दाशा ब्रह्म दासाः * इत्यादिना दाशकितवादित्वमप्यधीयत एके शाखिनः; सर्वजीवव्यापित्वादभेदोपदेशस्य तत्रात्यादरः प्रतीयत इत्यर्थः ॥
मन्त्रवर्णात् ॥४३॥
मन्त्रवर्णाच्चांश एव जीवः, * पादोऽस्य विश्वां भूतानीति; पादशब्दोंऽशवाची ॥
अपि स्मर्यते ॥४४॥
- ममैवांशो जीवलोके जीवभूतस्सनातनः * इति जीवस्य परमात्मांशत्वं स्मर्यते च ॥
एकद्रव्यैकदेशत्वं ह्यंशत्वम्; अतो जीवस्य ब्रह्मैकदेशत्वेन जीवदोषा ब्रह्मणो दोषा एवेत्याशङ्क्याह -
प्रकाशादिवत्तु नैवं परः ॥४५॥
तुशब्दश्शङ्कानिवृत्त्यर्थः; प्रकाशवतां मणिद्युमणिप्रभृतीनां प्रकाशविशिष्टानां विशेषणभूतः प्रकाशः यथांशः, तद्वज्जीवशरीरतया जीवविशिष्टस्य ब्रह्मणोंऽशो जीवः । विशिष्टवस्त्वैकदेशतया विशेषणस्य, विशेषणं विशिष्टस्यांशः । आदिशब्दात् द्रव्यविशेषणतैकस्वभावजातिगुणशरीराणि गृह्यन्ते । विशेषणविशेष्ययोः, स्वरूपस्वभावभेदाद्विशेषणभूतो जीवः यत्स्वरूपो यत्स्वभावश्च, नैवं परः - सर्वज्ञस्सत्यसङ्कल्पो नित्यनिरवद्यश्चेत्यर्थः ॥
स्मरन्ति च ॥४६॥
प्रकाशादिवत् जीवस्यांशत्वं पराशरादयः स्मरन्ति * एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणश्शक्तिस्तथेदमखिलं जगत् ॥ तथा परं प्रति शरीरत्वं च * यत्किञ्चित्सृज्यते येन सत्त्वजातेन वै द्विज । तस्य सृज्यस्य संभूतौ तत्सर्वं वै हरेस्तनुः ॥ इति ॥
ब्रह्मांशत्वेन च सर्वेषामात्मनां समत्वाद्वेदाध्ययनादौ केषांचिदनुज्ञा, केषांचित्परिहारश्च कथमुपपद्यत इत्यत्राह -
अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॥४७॥
ब्राह्मणादिशुच्यशुचिदेहसंबन्धात् अनुज्ञापरिहारौ उपपद्येते, ज्योतिरादिवत् । ज्योतिः - अग्निः यथा श्रोत्रियागारादग्निराह्रियते, श्मशानादेस्तु परिह्रियते; यथाचान्नादिः श्रोत्रियादेरनुज्ञायते, अभिशस्तादेश्च परिह्रियते; तद्वत् ॥
असन्ततेश्चाव्यतिकरः ॥४८॥
जीवानां प्रतिशरीरं भिन्नत्वादणुत्वेन तत्रतत्रावच्छिन्नत्वाच्च न भोगव्यतिकरश्च । अज्ञब्रह्मजीववादे चोपहितब्रह्मजीववादे चाज्ञानसंबन्धि चोपाधिसंबन्धि च ब्रह्मैवेति भोगव्यवस्था न सिद्ध्यतीत्यभिप्रायः ।
आभासा एव च ॥४९॥
अज्ञब्रह्मजीववादे सर्वज्ञस्य ब्रह्मणः अज्ञानकल्पनस्वरूपतिरोधानकल्पनाहेतवः आभासा एव । चकारान्निरवद्यत्वादिश्रुतिविरोधश्च ॥
पारमार्थिकोपाधिसंबन्धिब्रह्मजीववादे अनाद्यदृष्टप्रवाहेणोपाधिप्रवाहानादित्वात्तत्संबन्धिनि ये दोषाः, न ते ब्रह्मणि प्रसज्यन्त इत्यत्राह -
अदृष्टानियमात् ॥५०॥
अदृष्टैस्तत्कृतोपाधिभिश्च ब्रह्मणश्छेदासंभवात्तत्कृता दोषा ब्रह्मण्येव संभवेयुः ॥
अभिसन्ध्यादिष्वपि चैवम् ॥५१॥
अदृष्टहेतुभूताभिसन्ध्यादिष्वप्युपाधिब्रह्मव्यतिरिक्तवस्त्वन्तराभावात्पूर्वपूर्वोपाधियुक्तं ब्रह्मैवेति न कश्चिद्विशेषः ॥
प्रदेशभेदादिति चेन्नान्तर्भावात् ॥५२॥
उपाधिसंबन्धिब्रह्मप्रदेशादनुपहितब्रह्मदेशो भिद्यते; अतो व्यवस्थेति चेन्न, उपाधिषु गच्छत्सु पूर्वमनुपहितब्रह्मप्रदेशस्याप्यन्तर्भावात् ॥
अंशाधिकरणम् ॥
॥इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे द्वितीयस्याध्यायस्य तृतीयः पादः।।
।।अथ द्वितीयाध्याये चतुर्थः पादः।।