परात्तु तच्छ्रुतेः ॥४०॥
इदानीं जीवस्य कर्तृत्वं किं परमात्मायत्तम्, उत स्वायत्तमिति संशयः । स्वायत्तमिति पूर्वः पक्षः, विधिनिषेधशास्त्रानर्थक्यापत्तेः । यस्स्वबुद्ध्यैव प्रवृत्तिनिवृत्तिशक्तः, स एव हि नियोज्यो निग्रहानुग्रहास्पदं च भवतीति । राद्धान्तस्तु *अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा *य आत्मानमन्तरो यमयति इत्यादिश्रुतेः परमात्मायत्तमेव कर्तृत्वम्; तच्च जीवेन स्वबुद्ध्या कृतं प्रयत्नमपेक्ष्य तदनुमतिदानेनेति विधिनिषेधावैयर्थ्यम् । अत एव निग्रहानुग्रहास्पदं च । सूत्रद्वयमपि व्याख्यातम् ॥ इति परायत्ताधिकरणम् ॥
कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥४१॥