कर्ता शास्त्रार्थवत्त्वात् ॥३३॥
आत्मनो ज्ञातृत्ववत्कर्तृत्वमप्यस्ति, नेति संशयः । प्रधानस्यैव कर्तृत्वादात्मनो न कर्तृत्वमस्तीति पूर्वः पक्षः। *अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते नान्यं गुणेभ्यः कर्तारम् इत्यादिषु गुणानामेव कर्तृत्ववचनात् । राद्धान्तस्तु - स्वर्गापवर्गसाधनानुष्ठानविधानशास्त्राणामर्थवत्त्वाय कर्तैवात्मा, बोद्धुरेव हि शासनम्; नाचेतनस्य प्रधानस्य । *यजेत *उपासीतेति कर्तरि लकारः । अतः कर्तारमेव बोधयति शास्त्रम् । सूत्रमपि व्याख्यातम् ॥
उपादानाद्विहारोपदेशाच्च (२-३-३४)
उपादानात् उपदिश्यमानात्, विहारोपदेशाच्च । उपदिश्यते उपादानं विहारश्च, “एवमेवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते” इति उपादानविहारयोः कर्तृत्वोपदेशाच्च कर्ता ॥३४॥
व्यपदेशाच्च क्रियायां न चेत् निर्देशविपर्ययः ॥३५॥
विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि चेति यज्ञादिकर्मस्वात्मनः कर्तृत्वोपदेशाच्च कर्ता । विज्ञानशब्देन नात्मनो व्यपदेशः, अपि त्वन्तःकरणरूपबुद्धेरेवेति चेत् - तथा सति विज्ञानेनेति करणविभक्तिनिर्देशस्स्यात् ॥
उपलब्धिवदनियमः ॥३६॥
प्रधानस्य कर्तृत्वेन आत्मनो भोक्तृत्वमिति पक्षे पूर्वोक्तोपलब्ध्यनियमवत्प्रधानस्य सर्वसाधारणत्वात् भोक्तृत्वानियमः । अन्तःकरणभेदेऽपि सर्वेषामात्मनां सर्वगतत्वेन साधारण्यमनिवार्यम् ॥
शक्तिविपर्ययात् ॥३७॥
बुद्धेः कर्तृत्वे कर्तुरन्यस्य भोक्तृत्वायोगात् भोक्तृत्वशक्तिरपि बुद्धेरेवेति आत्मनो भोक्तृत्वशक्तिविपर्ययः - हानिरित्यर्थः ॥
समाध्यभावाच्च ॥३८॥
प्रकृतेः कर्तृत्वे मोक्षसाधनभूतसमाध्यभावश्च स्यात्; प्रकृतेरन्योस्मीति समाधाने प्रकृतेः कर्तृत्वायोगात् ॥
यथा च तक्षोभयथा ॥३९॥
आत्मनः कर्तृत्वेऽपि भोगवाञ्छायां करोति, अन्यथा न करोतीत्युभयप्रकारव्यवस्थोपपद्यते; यथा तक्षा स्वकार्ये इच्छया व्यवस्थितः । बुद्धेः कर्तृत्वे अचेतनत्वेन स्वेच्छाया अभावाद्व्यवस्था न सिध्यतीत्यभिप्रायः ॥
इति कर्त्रधिकरणम् ॥