ज्ञोऽत एव ॥१९॥
किं जीवश्चैतन्यमात्रवपुः, उत जडस्वरूप एवागन्तुकचैतन्यगुणः; अथ ज्ञातृत्वैकस्वरूप इति संशयः । चैतन्यमात्रवपुरिति प्रथमः पक्षः । *विज्ञानं यज्ञं तनुते *यो विज्ञाने तिष्ठन् *ज्ञानस्वरूपमत्यन्तनिर्मलम् इत्यादिश्रुतिस्मृतिभ्यः । द्वितीयस्तु - सुषुप्तिमूर्च्छादिषु सतोऽप्यात्मनश्चैतन्याऽनुपलब्धेः, जाग्रतोऽपीन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वाच्चैतन्यस्य, “न प्रेत्य संज्ञास्ती"ति मुक्तस्य चैतन्यप्रतिषेधाच्च, पाषाणकल्प एवागन्तुकचैतन्यगुणः, सर्वत्र कार्योपलब्धेः सर्वत्र सन्निधानात् शरीरगमनेनैव कार्यसंभवे गतिकल्पनायोगात्, सर्वगतश्चेति । राद्धान्तस्तु - “अथ यो वेदेदं जिघ्राणीति स आत्मा”, “मनसैतान्कामान्पश्यन्रमते”, “न पश्यो मृत्युं पश्यति”, “सर्वं ह पश्यः पश्यति”, “द्रष्टा श्रोता घ्राता रसयिता” इत्यादिश्रुतिभ्यो बद्धमुक्तोभयावस्थो ज्ञातैवात्मा । ज्ञानमात्रव्यपदेशस्तु ज्ञानस्य प्रधानगुणत्वात्, स्वरूपानुबन्धित्वेन स्वरूपनिरूपकगुणत्वात्, आत्मस्वरूपस्य ज्ञानवत्स्वप्रकाशत्वाद्वोपपद्यते । सुषुप्तिमूर्च्छादौ सदेव ज्ञानं कर्मणा संकुचितमनभिव्यक्तमपि जागरादौ विकसितमभिव्यज्यत इति न विरोधः । “न प्रेत्य संज्ञाऽस्ती"ति सांसारिकदेहाद्यस्मरणविषयम्, “नोपजनं स्मरन्निदं शरीरमि"त्यादिनैकार्थ्यात् । सर्वगतत्वं तु अणुत्वगत्यादिश्रुतिविरुद्धम् ।
सूत्रार्थस्तु - ज्ञोऽत एव । अतः - श्रुतेः, ज्ञातैव ॥
उत्क्रान्तिगत्यागतीनाम् ॥२०॥
श्रुतेरिति वर्तते । *तेन प्रद्योतेनैष आत्मा निष्क्रामति *ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे इत्याद्युत्क्रान्तिगत्यामतीनां श्रवणादणुर्जीवः ॥
स्वात्मना चोत्तरयोः ॥२१॥
चशब्दोऽवधारणार्थः । यद्यप्युत्क्रान्तौ स्थितस्य शरीरविश्लेषेण कथंचित्संपाद्यत्वमस्ति; उत्तरयोः - गमनागमनयोस्तु स्वात्मनैव संपाद्यत्वमवश्याभ्युपेयम् ॥
नाणुरतच्छ्रुतेः इति चेत् न इतराधिकारात् ॥२२॥
“योऽयं विज्ञानमय” इति जीवं प्रस्तुत्य “स वा एष महानज आत्मा” इति महत्वश्रुतेः नाणुर्जीव इति चेन्न; इतराधिकारात् - जीवेतरपरमात्माधिकारात् । “यस्यानुवित्तः प्रतिबुद्ध आत्मा” इति हि मध्ये परमात्मा प्रस्तुतः ॥
स्वशब्दोन्मानाभ्यां च ॥२३॥
“एषोऽणुरात्मा चेतसा वेदितव्यः यस्मिन्प्राणः पञ्चधा संविवेशे"ति साक्षादणुशब्दादणुरेवायम् । उन्मानाच्चाणुरेव । उन्मानम् - उद्धृत्य मानम् । “आराग्रमात्रो ह्यवरोऽपि दृष्टः” इत्याराग्रमुद्धृत्य तन्मानत्वं हि जीवस्य श्रूयते ॥
आत्मनोऽणुपरिमाणस्य सकलदेहव्यापि सुखाद्यनुभवः कथमित्यत्र मतान्तरेण परिहारमाह -
अविरोधश्चन्दनवत् ॥२४॥
यथा हरिचन्दनबिन्दुः देहैकदेशवर्त्यपि सकलदेहवर्तिनमाह्लादं जनयति, तद्वदविरोधः ॥
अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॥२५॥
चन्दनबिन्दोर्देहैकदेशविशेषस्थित्यपेक्षस्तथाभावः; आत्मनस्तु न तथेति चेन्न, आत्मनोऽपि तथाभावाभ्युपगमात्; हृदि ह्ययमात्मा स्थित इति श्रूयते - “योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिरि"त्यादौ ॥
स्वमतेनाह -
गुणाद्वाऽऽलोकवत् (२-३-२६) ।
वाशब्दो मतान्तरव्यावृत्त्यर्थः । आत्मा स्वगुणेन ज्ञानेन सकलदेहं व्याप्यावस्थितः;
यथा द्युमणिमणिप्रभृतीनामेकदेशवर्तिनामालोकः तद्गुणः अनेकदेशव्यापी दृश्यते ॥२६॥
विज्ञानं यज्ञं तनुते इत्यादौ ज्ञानमेवात्मेति व्यपदिश्यत इति चेत्; तत्राह -
व्यतिरेको गन्धवत् तथा च दर्शयति ॥२७॥
जानामीत्यात्मगुणत्वेन प्रतीतेः व्यतिरेकोऽभ्युपगमनीयः । यथा गन्धवती पृथिवी इत्युपलब्धौ गन्धस्तद्गुणस्तद्व्यतिरिक्तः । दर्शयति च श्रुतिः *जानात्येवायं पुरुष इति ॥
पृथगुपदेशात् ॥२८॥
न केवलं जानामीति पृथगुपलब्धिमात्रम्; आत्मनः पृथक्त्वेनोपदिश्यते च ज्ञानम्, न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते इति ॥
विज्ञानमात्मेति व्यपदेशः कथमुपपद्यत इत्यत्राह -
तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥२९॥
ज्ञानगुणसारत्वादात्मनो ज्ञानमिति व्यपदेशः; यथा प्राज्ञः, ब्रह्मणा विपश्चिता यस्सर्वज्ञस्सर्ववित् इति सर्वज्ञ एव ज्ञानगुणसारत्वात् सत्यं ज्ञानमिति व्यपदिश्यते ॥
यावदात्मभावित्वाच्च न दोषः तद्दर्शनात् ॥३०॥
ज्ञानस्य यावदात्मस्वरूपभावित्वाच्च तेन तद्व्यपदेशो न दोषः, खण्डादिषु तथा दर्शनात्; खण्डादिषु हि यावत्स्वरूपभाविधर्मत्वेन गोत्वस्य गौरिति व्यपदेशो दृश्यते; चकारादात्मनः स्वप्रकाशत्वेन ज्ञानमिति व्यपदेशो न दोष इत्युच्यते ॥
सुषुप्त्यादिषु ज्ञानस्यानुपलब्धेर्न यावदात्मभावित्वमित्याशङ्क्याह -
पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॥३१॥
तुशब्दश्शङ्कानिवृत्त्यर्थः; सुषुप्त्यादिष्वपि सतो ज्ञानस्यानभिव्यक्तस्य जागर्यादिष्वभिव्यक्तिसंभवात् यावदात्मभाव्येव ज्ञानम् । पुंस्त्वादिवत् - पुंस्त्वमिति पुरुषासाधारणधातुरुच्यते; यथा सप्तधातुमयत्वेन शरीरस्य पुंस्त्वस्य बाल्येऽपि सतोऽनभिव्यक्तस्य सप्तमधातोः युवत्वेऽभिव्यक्तिः ॥
एवमात्मनो ज्ञातृत्वमणुत्वं चोक्त्वा पक्षान्तरे दोषमाह -
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा ॥३२॥
अन्यथा - ज्ञानात्मवादे सर्वगतात्मवादे च उपलब्ध्यनुपलब्धी नित्यवत् प्रसज्येयाताम्; उपलब्ध्यनुपलब्ध्योरन्यतरनियमो वा । ज्ञानात्मपक्षे तावत् ज्ञानस्य प्रकाशस्वभावत्वात्प्रकाशपर्यायोपलब्धेर्नित्यवत्प्रसक्तिरनिवार्या । ज्ञाने विद्यमाने सति हेत्वन्तरेणानुपलब्धिजननायोगात् ज्ञानमेवानुपलब्धेरपि
हेतुरित्यास्थेयम् । ज्ञानस्य सर्वदा वर्तमानत्वात् सर्वदोभयप्रसक्तिः । अथ युगपद्विरुद्धकार्यजननायोगात् ज्ञानमुपलब्ध्यनुपलब्ध्योरन्यतरहेतुरास्थीयते, तदाऽन्यतरनियमस्स्यात् । सर्वगतत्वपक्षे यथा ज्ञानात्मवादिनाम्, तथैव हेतुजन्यज्ञानवादिनोऽपि सर्वेषामात्मनां सर्वगतत्वे सर्वस्यात्ममनस्संयोगादेः हेतोस्सर्वेषां साधारणत्वात् उक्तरीत्या तथैव प्रसक्तिः । अदृष्टोत्पत्तिहेतोरपि सर्वस्य साधारणत्वाददृष्टेनापि न व्यवस्था ॥
इति ज्ञाधिकरणम् ॥