नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः ॥१८॥
किमात्मोत्पद्यते, न वेति संशयः । उत्पद्यत इति पूर्वः पक्षः । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञादेः, *तोयेन जीवान्व्यससर्ज भूम्याम् प्रजापतिः प्रजा असृजत इत्यादि सृष्टिवचनाच्च; नित्यादिश्रुतिराकाशाद्यमृतत्ववचनवन्नेया । राद्धान्तस्तु - नात्मोत्पद्यते, अनुत्पत्तिश्रुतेः । न जायते म्रियते वा विपश्चित् इति जीवोत्पत्तिर्निषिध्यते; *अजो नित्यः *नित्यो नित्यानामित्यादिश्रुतिभ्यो नित्यत्वावगमात् । जीवोत्पत्तिपक्षे अकृताभ्यागमकृतविप्रणाशादिप्रसङ्गात्, वैषम्यनैर्घृण्यप्रसङ्गाच्च । जीवस्य सृष्टिवचनं भोक्तृत्वानुगुणज्ञानविकासाभिप्रायम् । प्राक् सृष्टेरेकत्वावधारणादविभागवचनं नामरूपविभागाभावाभिप्रायम् । सूत्रमपि व्याख्यातम् ॥इति आत्माधिकरणम्॥