20 तेजोधिकरणम्

तेजोऽतस्तथा ह्याह ॥२.३.१०॥
आकाशाद्वायुः * इत्यादिव्यवहितकार्याणि किं स्वानन्तराकाशादेः केवलादुत्पद्यन्ते उत तत्तच्छरीरात् परस्मात् ब्रह्मणः इति संशयः । स्वानन्तरादेवेति पूर्वः पक्षः - * आकाशाद्वायुः * वायोरग्निः * इति तस्मात्केवलादेवोत्पत्तिश्रवणात् । * एतस्माज्जायते प्राणः * इति परस्माद्ब्रह्मणस्सर्वस्योत्पत्तिवादः, परम्परयाप्युपपद्यते । राद्धान्तस्तु - * तत्तेज ऐक्षत बहु स्याम् * ता आप ऐक्षन्त * इति बहुभवनसङ्कल्पपूर्वकसृष्ट्युपदेशात् । केवलस्य त्वीदृशसङ्कल्पानुपपत्तेः, * यस्तेजसि तिष्ठन्, यस्य तेजश्शरीरम् …… यस्याकाशश्शरीरम् * इति सर्वेषां परब्रह्मशरीरत्वश्रवणाच्च तत्तच्छब्दवाच्यात्परस्माद्ब्रह्मण एव साक्षात्तेजःप्रभृतीनामपि सृष्टिः । सूत्रार्थस्तु - तेजोऽतस्तथा ह्याह - अतः वायोरेव केवलादुत्पद्यते तेजः, तथा ह्याह श्रुतिः - * वायोरग्निरिति ॥

आपः ॥२.३.११॥
अतस्तथा ह्याहेत्यनुवर्तते, अतः - तेजस एव केवलात्, आपः उत्पद्यन्ते, * अग्नेरापः * तदपोऽसृजत इति ह्याह ।

पृथिवी ॥२.३.१२॥
एवं पृथिव्यपि उत्पद्यते, * अद्भ्यः पृथिवी * ता अन्नमसृजन्त * इति ह्याह ॥

अन्नशब्देन कथं पृथिव्यभिधीयत इत्यवगम्यते? तत्राह –
अधिकाररूपशब्दान्तरेभ्यः ॥२.३.१३॥
अन्नशब्देन पृथिव्युच्यते, महाभूतसृष्ट्यधिकारात् । पश्चादपि महाभूतरूपसङ्कीर्तने * यत्कृष्णं तदन्नस्येति रूपकीर्तनात् । समानप्रकरणे * अद्भ्यः पृथिवीति पृथिवीशब्दश्रवणाच्च ॥

तदभिध्यानादेव तु तल्लिङ्गात्सः ॥२.३.१४॥
तुशब्दः पक्षव्यावृत्त्यर्थः । न तेजःप्रभृतयः केवलाः स्वानन्तराणां कारणानि; अपि तु तत्तच्छरीरः सः - परमात्मैव तेषां कारणम्; कुतः? परमात्मसृष्टिलिङ्गात् तथाविधाभिध्यानात् । यथैव हि * तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजतेति, तथैव * तत्तेज ऐक्षत बहु स्यां प्रजायेयेति बहुभवनसङ्कल्परूपाभिध्यानं (दृश्यते; ईदृशमभिध्यानं) परमात्मन एव हि संभवति ॥

विपर्ययेण तु क्रमोऽत उपपद्यते च ॥२.३.१५॥

  • आकाशाद्वायुः, * वायोरग्निरिति पारम्पर्यक्रमात् विपर्ययेण * एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च …. पृथिवी * इति सर्वेषां ब्रह्मानन्तर्यरूपो यः क्रमः, स चात एव तत्तच्छरीराद्ब्रह्मणस्सृष्टेरुपपद्यते ॥

अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॥२.३.१६॥
विज्ञानसाधनत्वादिन्द्रियाणि प्राणश्च विज्ञानमित्युच्यते । * एतस्माज्जायते प्राणः इत्येतद्वाक्यम् आकाशतन्मात्रपञ्चकयोरन्तराले विज्ञानमनसी क्रमेण उत्पद्येते इत्येतत्परम् । विज्ञानमनसी इति प्राणस्यापि प्रदर्शनार्थम्, * पृथिव्यप्सु प्रलीयते इत्यारभ्य * वायुराकाशे लीयते आकाशमिन्द्रियेषु इन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ लीयन्ते * इति प्रलयक्रमप्रत्ययभिज्ञानात् तल्लिङ्गात् । अतो न श्रुत्यन्तरविरुद्धत्वात्साक्षाद्ब्रह्मणस्सर्वेषां सृष्टिपरमिदं वाक्यम् । अपि तु श्रुत्यन्तरसिद्धपारम्पर्यक्रमपरमिति चेत्; परिहरति नाविशेषात् - भूततन्मात्रान्तराले विज्ञानमनसोरुत्पत्तावपि तत्तच्छरीरकब्रह्माभिधायित्वात् भूतेन्द्रियमनःप्राणशब्दानां सर्वेषां साक्षादुत्पत्त्यविशेषात् तत्परमेवेदं वाक्यम् ॥

लोके तत्तद्वस्तुवाचितया प्रसिद्धस्य शब्दजातस्य ब्रह्मणि वृत्तिरमुख्येत्याशङ्क्याह - चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशोऽभाक्तस्तद्भावभावित्वात् ॥२.३.१७॥
तुशब्दश्शङ्कानिवृत्त्यर्थः । स्थावरजङ्गमवस्तुव्यपाश्रयः तद्व्यपदेशः तद्वाचिशब्दो ब्रह्मणि अभाक्तः - मुख्य एव । कुतः । तद्भावभावित्वात् - तेजःप्रभृतिषु आत्मतया ब्रह्मभावभावित्वेन सर्वस्य वस्तुनस्तच्छरीरतया तत्प्रकारत्वात् तत्तद्वाचिनां शब्दानां तत्रैव पर्यवसानात् । प्रकारवाचिनां शब्दानां प्रकारिपर्यवसायित्वेनाभाक्तत्वं गवादिशब्देषु सिद्धम् ।
इति तेजोऽधिकरणम् ॥