19 वियदधिकरणम्

॥अथ द्वितीयाध्याये तृतीयः पादः॥
न वियदश्रुतेः ॥२.३.१॥
वियत् उत्पद्यते, नेति संशयः । नोत्पद्यते इति पूर्वः पक्षः । निरवयवस्य सर्वगतस्यात्मन इवोत्पत्त्यसंभवात् । असंभावनीयस्य श्रवणं च न संभवति । अत उत्पत्तिश्रुतिर्गौणीति । राद्धान्तस्तु – वियत् उत्पद्यत एव, उत्पत्तिश्रुतेः । अतीन्द्रियार्थविषयया श्रुत्याऽभिहितेऽर्थे निरवयवत्वादिहेतुकं नानुत्पत्त्यमानमुदेतुमलम् । आत्मनोऽप्यनुत्पत्तिश्रुतेरेव नित्यत्वम्, न निरवयवत्वादिना । सूत्रार्थस्तु – न वियदश्रुतेः - वियत् नोत्पद्यते । कुतः? अश्रुतेः – अश्रवणात्; असंभावनीयस्य श्रवणासंभवात् ॥

अस्ति तु ॥२.३.२॥
अस्ति तु वियत उत्पत्तिः, * आत्मन आकाशस्संभूतः * इति श्रुतेः । अतीन्द्रियार्थविषयया श्रुत्या प्रमाणान्तराप्रतिपन्नवियदुत्पत्तिप्रतिपादनं संभवत्येव । न अग्निना सिञ्चेदितिवदयोग्यमित्यर्थः ॥

गौण्यसंभवाच्छब्दाच्च ॥२.३.३॥
तत्तेजोऽसृजतेति प्रतिपन्नतेजःप्राथम्यविरोधात् मध्ये वियदुत्पत्तिर्न संभवतीत्युत्पत्तिश्रुतिर्गौणी, वायुश्चान्तरिक्षञ्चैतदमृतमित्यमृतत्वश्रवणाच्च ॥

स्याच्चैकस्य ब्रह्मशब्दवत् ॥२.३.४॥
आकाशस्संभूतः, आकाशाद्वायुः, वायोरग्निः * इत्यादिषु सर्वत्रानुषक्तस्यैकस्य संभूतशब्दस्य आकाशे गौणत्वं वाय्वादिषु मुख्यत्वं च संभवति; ब्रह्मशब्दवत् – यथैकस्य ब्रह्मशब्दस्यैकप्रकरणे श्रूयमाणस्य * तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते * इति प्रधाने गौणत्वम्, * तपसा चीयते ब्रह्म * इति ब्रह्मणि मुख्यत्वं च । श्रवणावृत्ताविवानुषऽङ्गेप्यभिधानावृत्तेरनुषङ्गोऽपि तत्तुल्य इत्यभिप्रायः ॥

परिहरति –
प्रतिज्ञाऽहानिरव्यतिरेकात् ॥२.३.५॥
येनाश्रुतं श्रुतमिति ब्रह्मविज्ञानेनाकाशादिसर्वविज्ञानप्रतिज्ञाया अहानिः, आकाशस्यापि ब्रह्मण उत्पत्त्या तदव्यतिरेकादेव भवति ॥

इतश्च -
शब्देभ्यः ॥२.३.६॥

  • सदेव सोम्येदमग्र आसीत् * ऐतदाम्यमिदं सर्वम् * इत्यादिभ्यो ब्रह्मणः प्राक्सृष्टेरेकत्वावधारणसर्वात्मकत्वादिवादिभ्यश्शब्देभ्यश्च वियदुत्पत्तिः प्रतीयते । * तत्तेजोऽसृजत * इति एतस्मिन्वाक्ये आकाशोत्पत्त्यवचनात्प्रतीयमानं तेजःप्राथम्यं समानप्रकरणस्थैः प्रकरणान्तरस्थैश्च शब्दैः प्रतीयमानां वियदुत्पत्तिं न निवारयतीत्यभिप्रायः ॥

यावद्विकारं तु विभागो लोकवत् ॥२.३.७॥
यद्यपि च्छान्दोग्ये * तत्तेजोऽसृजतेतिवदाकाशोत्पत्तिः स्वरूपेण नाभिधीयते; तथापि तस्मिन्नेव * ऐतदात्म्यमिदं सर्वमित्यादिनाऽऽकाशादेस्सर्वस्य वस्तुनो ब्रह्मविकारत्ववचनात् यावद्विकारं विभागः – उत्पत्तिरुक्तैवेति गम्यते । लोकवत् – यथा लोके सर्व एते देवदत्तपुत्रा इत्यभिधाय तेषां केषाञ्चिद्देवदत्तादुत्प्ततिवचनं सर्वेषां तत उत्पत्तिप्रतिपादनार्थमिति गम्यते । आकाशस्यामृतत्ववचनं सुरादिवच्चिरकालस्थायित्वविषयमित्भिप्रायः ॥

एतेन मातरिश्वा व्याख्यातः ॥२.३.८॥
अनेनैव न्यायेन मातरिश्वनोऽप्युत्पत्तिरुक्ता । नायं न्यायातिदेशः, अधिकाशङ्काभावात् । * तेजोऽतस्तथा ह्याह * इति वायोस्तेजस उत्पत्तिं वक्तुं पृथगुपादानम् ॥

असंभवस्तु सतोऽनुपपत्तेः ॥२.३.९॥
तुशब्दोऽवधारणार्थः । सतः परमकारणस्य परस्यैव ब्रह्मणः असंभवः - उत्पत्त्यसंभवः । तद्व्यतिरिक्तस्य कृत्स्नस्यैव एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाद्यनुपपत्तेः संभव उक्त इत्यभिप्रायः ॥ इति वियदधिकरणम् ॥