न प्रयोजनवत्त्वात्।
ब्रह्मणो जगत्कारणत्वं सम्भवति नेति संशयः। न सम्भवतीति पूर्वपक्षः, बुद्धिपूर्वारम्भाणां सप्रयोजनत्वादीश्वरस्य च स्वत एवावाप्तसमस्तकामस्य जगत्सृष्ट्यारम्भे प्रयोजनाभावात्; गर्भावासादिदुःखरूपत्वात्सृष्टेः परानुग्रहेणापि न सप्रयोजनत्वमिति । राद्धान्तस्तु - परिपूर्णस्यापीश्वरस्य केवललीलाप्रयोजनाय जगत्सृष्ट्या(द्या)रम्भस्सम्भवति। यथा लोके सप्तद्वीपवतीं मेदिनीमधितिष्ठतो महाराजस्य परिपूर्णस्यापि केवललीलैकफलाः कन्दुकाद्यारम्भा दृश्यन्ते, तद्वदीश्वरस्यापि प्रयोजनाय जगत्सृष्ट्यारम्भस्सम्भवति । सूत्रार्थस्तु - न प्रयोजनवत्त्वात् - प्रयोजनवत्त्वात्सृष्टेः, ईश्वरस्य स्वतः परिपूर्णस्य प्रयोजनाभावान्न स्रष्टृत्वम्॥
लोकवत्तु लीलाकैवल्यम्।
लीलाकैवल्यम् - लीलायाः प्रयोजनत्वे कैवल्यं सम्भवति । केवलाया लीलायास्सृष्ट्यारम्भप्रयोजनत्वं सम्भवतीत्यर्थः । लोकवत् - यथा लोके राज्ञः कन्दुकाद्यारम्भे॥
(ननु ईश्वरस्य लीलैकफला जगत्सृष्टिर्न सम्भवति) देवमनुष्यादिविषमसृष्ट्या पक्षपातप्रसङ्गात्, दुर्विषहदुःखगर्भत्वेन नैर्घृण्यप्रसङ्गाच्च, परमकारुणिकस्य परमपुरुषस्य परिपूर्णस्य लीलार्थमपि जगत्सर्गो न सम्भवतीत्याशङ्क्याह -
वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति।
ईश्वरस्य विचित्रजगत्सृष्टौ देवादिवैषम्यप्रयुक्तपक्षपातो दुःखप्रदजगत्सर्गे नैर्घृण्यं च न सम्भवतः, वैषम्यादावीश्वरस्य क्षेत्रज्ञकर्मसापेक्षत्वात् । क्षेत्रज्ञानां पूर्वपूर्वकर्म पर्यालोच्य तत्तत्कर्मानुगुणं विषमं जगत्सृजतीति तत्तत्कर्मैव वैषम्यादिहेतुरित्यर्थः। तथा देवादिदेहयोगं क्षेत्रज्ञानां तत्तत्कर्मसापेक्षं दर्शयति हि श्रुतिः, “साधुकारी साधुर्भवति, पापकारी पापो भवती"ति॥
न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च।
सृष्टेः प्राक् कर्म न विद्यते, क्षेत्रज्ञाभावात्। तदभावश्च, “सदेव सोम्येदमि"त्यवधारणावगतादविभागादिति चेत्, तन्न; अनादित्वात्क्षेत्रज्ञानां तत्तत्कर्मप्रवाहाणां च। उपपद्यते च क्षेत्रज्ञस्वरूपानादित्वेऽपि नामरूपविभागाभावादविभागश्रुतिः, अन्यथा अकृताभ्यागमकृतविप्रणाशप्रसङ्गात् । उपलभ्यते च श्रुतिस्मृत्योः क्षेत्रज्ञानामनादित्वं, “तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियते"ति नामरूपव्याकरणमात्रश्रवणात्क्षेत्रज्ञानां स्वरूपानादित्वं सिद्धम् । “ज्ञाज्ञौ द्वावजावीशनीशौ”, “नित्यो नित्यानां”, “प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपी"ति । अविभागश्रुतिरपि नामरूपविभागाभावादेवोपपद्यत इत्यभिप्रायः।
अत्र पाठान्तरम् - सृष्टेः प्राक्कर्म न विद्यते, क्षेत्रज्ञाभावात् । तदभावश्च, “सदेव सोम्येदमि"त्यवधारणावगतादविभागादिति चेत्, तन्न; अनादित्वात् क्षेत्रज्ञानां तत्तत्कर्मप्रवाहाणां च, “तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियते"ति नामरूपव्याकरणमात्रश्रवणात् क्षेत्रज्ञानां स्वरूपानादित्वं सिद्धम् । उपपद्यते क्षेत्रज्ञस्वरूपानादित्वेऽपि नामरूपविभागाभावादविभागश्रुतिः; अन्यथा अकृताभ्यागमकृतविप्रणाशप्रसङ्गात् । उपलभ्यते च श्रुतिस्मृत्योः क्षेत्रज्ञानामनादित्वम्, “ज्ञाज्ञौ द्वावजावीशनीशौ”, “नित्यो नित्यानाम्”, “प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि”, “न जायत” इत्यादिभिः॥
सर्वधर्मोपपत्तेश्च।
प्रधानपरमाण्वादिष्वनुपपन्नानां “स्वपक्षदोषादि"त्यादिषूक्तानां सर्वेषां धर्माणां कारणत्वोपपादकानां ब्रह्मण्युपपत्तेश्च ब्रह्मैव कारणम्। प्रधानपरमाण्वादीनां परिमितशक्ति(क)त्वाल्लोकदृष्टवस्तुसजातीयत्वाच्च अनुपपत्तयस्सहस्रशस्सन्ति। ब्रह्मकारणत्वे शास्त्रैकसमधिगम्यस्य ब्रह्मणस्सकलेतरविसजातीत्वेनाचिन्त्यशक्तित्वात्सर्वशक्तित्वश्रुतेश्च सर्वमुपपन्नमित्यर्थः॥
इति प्रयोजनवत्त्वाधिकरणम्॥
॥ इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे द्वितीयाध्यायस्य प्रथमः पादः॥