09 कृत्स्नप्रसक्त्यधिकरणम्

कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा।
ब्रह्मणो जगत्कारणत्वं सम्भवति नेति संशयः। न सम्भवतीति पूर्वपक्षः, निरवयवस्य ब्रह्मणो जगदुपादानत्वे कृत्स्नस्य ब्रह्मणो जगदाकारेणोपयोगप्रसङ्गात्। तत्परिजिहीर्षया सावयवत्वाभ्युपगमे, “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमि"त्यादिः कारणावस्थायां निरवयवत्ववाचिशब्दो बाध्येत। यद्यपि सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्म कारणं, स्थूलचिदचिद्वस्तुशरीरं ब्रह्म कार्यमित्यभ्युपगम्यते; तथापि शरीरांशस्यापि कार्यत्वाभ्युपगमात् कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो(बाधो) वा। राद्धान्तस्तु - सकलेतरविसजातीयं श्रुत्येकसमधिगम्यं सर्वशक्तियुक्तं ब्रह्म निरवयवमपि (कारणं) कार्यं च भवति अन्यच्च भवतीति परिमितशक्तिवस्तुचोद्यं न तत्र प्रसज्यते। यथा जातिवादिनो जातिरेकैवामूर्ताखण्डमुण्डादिष्वत्यन्तविलक्षणेषु अनन्तेष्वपि परिसमाप्यैव वर्तते, न तत्रेतरवस्तुचोद्यमिति। अतो ब्रह्मणः जगत्कारणत्वं सम्भवत्येव। सूत्रार्थस्तु - कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा - ब्रह्मकारणत्वे कृत्स्नस्य ब्रह्मणः कार्यत्वेनोपयोगप्रसङ्गः, निरवयवत्वात् । सावयवत्वे निरवयवत्वशब्दकोपो वा, निरवयवत्ववादिशब्दबाधप्रसङ्ग इत्यर्थः॥

श्रुतेस्तु शब्दमूलत्वात्।
तुशब्दः पक्षव्यावृत्त्यर्थः। श्रुतेः - श्रुतिप्रामाण्यान्नैवं प्रसज्यते। शब्दमूलत्वात्, शब्दैकमूलत्वेन सकलेतरविसजातीयत्वादित्यर्थः॥

आत्मनि चैवं विचित्राश्च हि।
आत्मनि चैवं - जीवात्मन्यचेतनधर्माप्रसक्तिश्चैवम्, अचेतनविसजातीयत्वादेवेत्यर्थः। विचित्राश्च हि - अचेतनेषु च विसजातीयेष्वग्निजलादिषु विचित्रा हि शक्तयो दृश्यन्ते । एवं परमात्मनश्चेतनाचेतनविसजातीयस्य विचित्राश्शक्तय उपपद्यन्ते॥

स्वपक्षदोषाच्च।
प्रधानादिकारणपक्षे दोषाच्च ब्रह्मैव जगत्कारणम् । तत्र हि लौकिकवस्तुसजातीयत्वेन प्रधानादेरुक्तदोषोऽन्ये च प्रसज्येरन्॥

सर्वोपेता च तद्दर्शनात्।
न केवलं सकलेतरविसजातीयत्वेन सर्वशक्त्युपेता परा देवतेत्युच्यते; तद्दर्शनाच्च, सर्वशक्तियोगश्रुतेरित्यर्थः। दर्शयतीति दर्शनं श्रुतिः । दर्शयति च श्रुतिस्सर्वशक्तियोगं, “पराऽस्य शक्तिर्विविधैव श्रूयत” इत्यादिका॥

विकरणत्वान्नेति चेत्तदुक्तम् ।
उक्तस्यार्थस्य द्रढिम्ने चोद्यपूर्वकं पूर्वोक्तं स्मारयति । विकरणत्वात् - करणविरहितत्वाद्ब्रह्म न कारणमिति चेत्, “न तस्य कार्यं कारणं च विद्यत” इति हि श्रूयते । तदुक्तम् - अत्र यद्वक्तव्यं तत्पूर्वमेवोक्तं, “शब्दमूलत्वात्”, “विचित्राश्च ही"ति । अयमेव परिहारः - शब्दैकमूलत्वेन सकलेतरविसजातीयत्वाद्ब्रह्मणः, विसजातीयानां च शक्तिवैचित्र्यस्य लोकदृष्टत्वात्सर्वमुपपन्नमित्यर्थः॥
इति कृत्स्नप्रसक्त्यधिकरणम्॥