उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि।
ब्रह्मणो जगत्कारणत्वं सम्भवति न वेति संशयः। न सम्भवतीति पूर्वपक्षः - लोके कार्यजननसमर्थस्यापि वस्तुनः तत्तत्कार्यजनने अनेककारकोपसंहारदर्शनाद्विचित्रजगज्जननसमर्थस्यापि ब्रह्मणोऽसहायस्य जनयितृत्वानुपपत्तेः। राद्धान्तस्तु - क्षीरस्य दधिभावेऽनन्यापेक्षत्वदर्शनान्नानेककारकोपसंहारनियमो दृश्यत इति ब्रह्मणोऽनन्यापेक्षस्यैव कारणत्वं सम्भवत्येव। सूत्रमपि व्याख्यातम्। क्षीरवद्धीति प्रसिद्धवन्निर्देशः चोद्यमान्द्यपरः॥
देवादिवदपि लोके।
यथा देवादयः स्वे स्वे लोके स्वापेक्षितानि स्वसङ्कल्पादेव सृजन्ति, तथा ब्रह्मापि । देवादेश्शास्त्रावसेयशक्तितया ब्रह्मतुल्यत्वेऽपि देवादिग्रहणं ब्रह्मणो विचित्रशक्तित्वस्य सुग्रहणायेति मन्तव्यम्॥
इति उपसंहारदर्शनाधिकरणम्॥