इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः।
ब्रह्मणो जगत्कारणत्वं संभवति, नेति संशयः। न संभवतीति पूर्वः पक्षः, “अयमात्मा ब्रह्म”, “तत्त्वमसी"ति सामानाधिकरण्येन जीवो ब्रह्मेत्यवगमात्, जगत्सर्गस्य च जीवदुःखहेतुत्वात्, आत्महिताकरणादिदोषप्रसक्तेः सर्वज्ञस्य सत्यसङ्कल्पस्य ब्रह्मणो जगत्कारणत्वानुपपत्तेः। जीवपरयोर्भेदवादिन्यश्श्रुतयः, जगद्ब्रह्मणोरनन्यत्वं वदता त्वयैव परित्यक्ताः, भेदे सत्यनन्यत्वासिद्धेः। औपाधिकभेदविषयाः भेदश्रुतयः, स्वाभाविकाभेदविषया अभेदश्रुतयः इति चेत्; तत्रेदं वक्तव्यम्, स्वभावतः स्वस्मादभिन्नं जीवं किमनुपहितं जगत्कारणं ब्रह्म जानाति, न वा? न जानाति चेत्, सर्वज्ञत्वहानिः। जानाति चेत्, स्वस्मादभिन्नस्य जीवस्य दुःखं स्वदुःखमिति जानतो ब्रह्मणः हिताकरणाहितकरणादिदोषप्रसक्तिरनिवार्या। जीवब्रह्मणोरज्ञानकृतो भेदः, तद्विषया भेदश्रुतिरिति चेत्; तत्रापि जीवाज्ञानपक्षे पूर्वोक्तो दोषस्तत्फलं च तदवस्थमेव। ब्रह्माज्ञानपक्षे स्वप्रकाशस्वरूपस्य ब्रह्मणः अज्ञानसाक्षित्वं तत्कृतजगत्सृष्टिश्च न संभवति । अज्ञानेन प्रकाशस्तिरोहितश्चेत्; तिरोधानस्य
प्रकाशनिवृत्तिकरत्वेन प्रकाशस्यैव स्वरूपत्वात्स्वरूपनिवृत्तिरेवेति स्वरूपनाशादिदोषा भाष्ये प्रपञ्चिताः ।
राद्धान्तस्तु - “अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः”, “तयोरन्यः पिप्पलं
स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति”, “प्रधानक्षेत्रज्ञपतिर्गुणेशः”, “पृथगात्मानं प्रेरितारं च मत्वे"त्यादिभिः
प्रत्यगात्मनोऽर्थान्तरभूतं ब्रह्मेत्यवगमात्, जीवकर्मानुगुणतया जगत्सर्गस्य च ब्रह्मणो लीलाप्रयोजनत्वाज्जगत्कारणत्वं
सम्भवत्येव । “तत्त्वमस्या"दिसामानाधिकरण्यनिर्देशः “यस्यात्मा शरीरमि"त्यादिश्रुतेर्जीवस्य ब्रह्मशरीरत्वात्तच्छरीरतया
जीवप्रकारकब्रह्मप्रतिपादनपरः । सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्म कारणावस्थं,
स्थूलचिदचिद्वस्तुशरीरं ब्रह्मैव कार्यावस्थमिति कार्यकारणयोरनन्यत्वम् । एवमपि शरीरभूतयोश्चिदचिद्वस्तुनोः शरीरिणो
ब्रह्मणश्च दुःखित्वपरिणामित्वहेयप्रत्यनीकत्वकल्याणगुणाकरत्वस्वभावाः स्वरूपविवेकविषयश्रुतिसिद्धाः तथैव
व्यवस्थिता इति ब्रह्मणो जगत्कारणत्वं सम्भवत्येव । सूत्रार्थस्तु - इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः - ब्रह्मण इतरः - जीवः।
ब्रह्मणो जीवतया व्यपदेशात्, जीवस्य च दुःखित्वाद्धितरूपजगदकरणमहितरूपजगत्करणमित्यादिदोषप्रसक्तिर्ब्रह्मणः । अतो ब्रह्मणो
जगत्कारणत्वं न सम्भवतीति॥
अत उत्तरं पठति -
अधिकं तु भेदनिर्देशात्।
तुशब्दः पक्षव्यावृत्त्यर्थः। प्रत्यगात्मनोऽधिकम् - अर्थान्तरभूतं ब्रह्म। कुतः? भेदनिर्देशात्। “स कारणं करणाधिपाधिपः”, “प्रधानक्षेत्रज्ञपतिर्गुणेशः”, “पृथगात्मानं प्रेरितारं च मत्वे"त्यादिभिः प्रत्यगात्मनो जीवाद्ब्रह्मणो हि भेदो निर्दिश्यते॥
अश्मादिवच्च तदनुपपत्तिः।
अश्मकाष्ठलोष्टतृणादेरचेतनस्येवानन्तदुःखाकरजीवस्य निरतिशयानन्दसत्यसङ्कल्पब्रह्मभावानुपपत्तिश्च । न केवलं भेदश्रुत्याऽर्थान्तरताऽवगम्यते, वस्त्वनुपपत्त्या चेत्यर्थः। जीवसामानाधिकरण्यनिर्देशः, “यस्यात्मा शरीरमि"त्यादिश्रुतिशतसिद्धजीवप्रकारकब्रह्मप्रतिपादनपर इति, “अवस्थितेरिति काशकृत्स्न” इत्यत्रैव प्रतिपादितः॥
इति इतरव्यपदेशाधिकरणम्॥