06 आरम्भणाधिकरणम्

तदनन्यत्वमारम्भणशब्दादिभ्यः।
किं ब्रह्मकार्यं जगत् ब्रह्मणोऽन्यत्, उतानन्यदिति संशयः। अन्यदिति पूर्वः पक्षः, तथोपलब्धेः। न हि बुद्धिशब्दान्तरादयः कारणात्कार्यस्यानन्यत्वे कथंचिदुपपद्यन्ते; कारकव्यापारवैयर्थ्यं चानन्यत्वे। अतो वस्तुविरोधादनन्यत्वश्रुतयो लक्षणया नेयाः। राद्धान्तस्तु - “वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्”, “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं, तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत”, “ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो”, “सर्वं खल्विदं ब्रह्म तज्जलानिति”, “तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत” इत्यादिश्रुतिशतसिद्धं कार्यस्य जगतः कारणाद्ब्रह्मणोऽनन्यत्वम्। न चात्र वस्तुविरोधगन्धः; कारणीभूतमृदादिद्रव्यस्यैव पृथुबुध्नोदराद्यवस्थान्तरापत्त्या बुद्धिशब्दान्तरादयोऽप्युपपद्यन्ते। तत एव कारकव्यापाराद्यर्थवत्त्वञ्च। एवं कारणस्यैव कार्यावस्थायामपि प्रत्यभिज्ञायमानस्यावस्थान्तरापत्त्यैव सर्वेषूपपन्नेषु अनुपलब्धद्रव्यान्तरकल्पना न संभवति। तस्मात् ब्रह्मकार्यं जगत् ब्रह्मणोऽनन्यदेव। सूत्रार्थस्तु - तस्मात् ब्रह्मणः, अनन्यत्वं कार्यस्य जगतः आरम्भणशब्दादिभ्यो वाक्येभ्यस्तदुपपादयद्भ्योऽवगम्यते, आरम्भणमिति शब्द आदिर्येषां पूर्वोक्तानां वाक्यानाम्, तान्यारम्भणशब्दादीनि; तान्यनन्यत्वमुपपादयन्ति।

भावे चोपलब्धेः।
घटादिकार्यभावे च तदेवेदं मृद्द्रव्यमित्थमवस्थितमिति कारणस्य उपलब्धेश्च कारणादनन्यत्वं कार्यस्य। यथा देवदत्तस्य बालत्वयुवत्वाद्यवस्थाविशिष्टस्यानन्यत्वम्॥

सत्वाच्चापरस्य।
अपरस्य कार्यस्य कारणे सत्त्वाच्च कारणादनन्यत्कार्यम्। सर्वमिदं घटशरावादि कार्यं पूर्वाह्णे मृदेवासीदिति हि कारणे कार्यमुपलभ्यते। घटशरावादिसंस्थानसंस्थितमेव मृद्द्रव्यं पूर्वकाले पिण्डाकारमुपलब्धमित्यर्थः॥

असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद्युक्तेः शब्दान्तराच्च।
“असदेवेदमग्र आसीत्”, “इदं वा अग्रे नैव किञ्चनासीत्” इत्यादिषु कारणावस्थायां कार्यस्यासत्त्वव्यपदेशात् कारणे कार्यं सदित्येतन्नोपपद्यत इति चेन्न, सदिति व्यपदेशहेतुभूतनामरूपावस्थाविरोधिसूक्ष्मावस्थाख्यधर्मान्तरेण योगादसदिति व्यपदिश्यते। कथमिदमवगम्यते? वाक्यशेषाद्युक्तेश्शब्दान्तराच्च। वाक्यशेषस्तावत् - “तदसदेव सन्मनोऽकुरुत स्याम्” इति । असदिति व्यपदिष्टस्यैव मनस्कारप्रतिपादनेन असद्व्यपदेशो धर्मान्तरयोगादित्यवगम्यते। युक्तिश्च - धर्मान्तरयोगमेवासद्व्यपदेशहेतुम् अवगमयति। घटोऽस्ति घटो नास्तीति सदसद्व्यपदेशयोर्घटत्वकपालत्वयोः परस्परविरोधिधर्मयोरेव हेतुत्वे सिद्धे तदतिरिक्तानुपलब्धतुच्छत्वस्य हेतुत्वकल्पनानुपपत्तेः। तथा शब्दान्तरं च - “सदेव सोम्येदमग्र आसीदि"ति समानप्रकरणस्थमसच्छब्दं धर्मान्तरयोगनिमित्तमवगमयति॥

पटवच्च।
यथा तन्तव एव व्यतिषङ्गविशेषभाजः पट इति नामरूपाभ्यां कार्यान्तरादिकं भजन्ते, तद्वद्ब्रह्मापि॥

यथा च प्राणादिः।
यथा च वायुरेक एव शरीरे वृत्तिविशेषं भजमानः प्राणापानादिनामरूपकार्यान्तराणि भजते, तद्वद्ब्रह्मापीति तदनन्यत्वं जगतस्सिद्धम्। इति आरम्भणाधिकरणम्॥