भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत्।
सर्वात्मभूतस्य परस्य ब्रह्मणः स्वशरीरभूताज्जीवान्निरतिशयानन्दस्वभावतया यो विभाग उक्तः, स किं विभागस्संभवति, उत नेति संशयः। न संभवतीति पूर्वः पक्षः। सर्वचिदचिद्वस्तुशरीरतया सशरीरत्वाद्ब्रह्मणः, सशरीरस्य च सुखदुःखयोर्भोक्तृत्वापत्तेः। तदापत्तिश्च “न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति, अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः” इति श्रुतेः। राद्धान्तस्तु - स्यादेव विभागो जीवात्परस्याकर्मवश्यतया। न सशरीरत्वप्रयुक्तस्सुखदुःखयोगः; अपि तु शास्त्रवश्यतया तदतिवृत्तिकृतः; “स एकधा भवति त्रिधा भवती"त्यादिनाऽवगतशरीरस्य मुक्तस्य सशरीरस्याप्यशास्त्रवश्यतया निरस्तनिखिलदुःखत्वदर्शनात्। यथा लोके राजशासनवश्यानां तच्छासनातिवृत्तिनिमित्तदुःखान्वयेऽपि राज्ञः सशरीरस्यापि प्रकारान्तरेण साधर्म्येऽपि स्वशासनावश्यतया न तदतिवृत्तिकृतदुःखान्वयः। विभागः वैलक्षण्यम्। सूत्रमपि व्याख्यातम्।
इति भोक्त्रापत्त्यधिकरणम्॥