04 शिष्टापरिग्रहाधिकरणम्

एतेन शिष्टाऽपरिग्रहा अपि व्याख्याताः।
न परिगृह्यन्ते वैदिकैरित्यपरिग्रहाः; शिष्टाश्च ते अपरिग्रहाश्च शिष्टापरिग्रहाः; एतेन - तर्काप्रतिष्ठानलक्षणकपिलस्मृतिनिरसनहेतुना, परिशिष्टाः कणभक्षादिस्मृतयोऽपि निरस्ता व्याख्याताः। परमाणुकारणवादस्सर्वसंमत इति न तेषां तर्कस्याप्रतिष्ठितत्वमित्यधिकाशङ्का । तर्कमूलत्वाविशेषात् परमाणूनां शून्यत्वाद्रव्यत्वादिविवादाच्च तर्कस्य अप्रतिष्ठितत्वमेवेति परिहारः॥
इति शिष्टापरिग्रहाधिकरणम्॥