न विलक्षणत्वादस्य तथात्वं च शब्दात्।
किं वेदान्तानां जगत्कारणतया प्रधानपरत्वम्, उत ब्रह्मपरत्वमिति संशयः। प्रधानपरत्वमिति पूर्वः पक्षः, अज्ञत्वादिना जगतो ब्रह्मविलक्षणत्वेन ब्रह्मकार्यत्वप्रतिपादनासंभवात्, सालक्षण्येन प्रधानकार्यत्वप्रतिपादनपरत्वस्य च संभवात्। राद्धान्तस्तु - माक्षिकादिभ्यः क्रिम्यादीनां विलक्षणानामुत्पत्तिदर्शनात् ब्रह्मविलक्षणस्य जगतः तत्कार्यत्वं संभवत्येव इति। सूत्रार्थस्तु - अज्ञत्वेनासुखत्वेन चोपलब्धस्य चास्य चिदचिन्मिश्रस्य जगतः सर्वज्ञाद्धेयप्रत्यनीकान्निरतिशयानन्दाद्ब्रह्मणो विलक्षणत्वेन जगतो ब्रह्मकार्यत्वप्रतिपादनं वेदान्तानां न संभवति। तथात्वं - विलक्षणत्वं च शब्दादवगम्यते, न केवलं प्रत्यक्षाद्युलब्द्ध्या, “विज्ञानं चाविज्ञानं च”, “अनीशया शोचति मुह्यमानः”, “अनीशश्चात्मा बध्यते भोक्तृभावात्” इत्यादेः।।
“आपो वा अकामयन्त”, “तं पृथिव्यब्रवीत्” इत्यादौ पृथिव्यादेरपि ज्ञानकार्यं व्यपदिश्यते; तस्मात् “अविज्ञानञ्च” इत्येतदन्यपरम् इत्यत उत्तरं पठति -
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्। (2-1-5)
तुशब्दश्चोद्यं व्यावर्तयति; पृथिव्याद्यभिमानिदेवतानामयं व्यपदेशः। कुतोऽवगम्यते, विशेषानुगतिभ्यां - विशेषः - विशेषणम् अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्। “हन्ताहमिमास्तिस्रो देवताः” इति पृथिव्यादेर्देवताशब्देन विशेषणं दृश्यते, “सर्वा ह वै देवता अहं श्रेयसे विवदमानाः” इति च वागादिप्राणपर्यन्तस्य च। तथा अनुगतिः - अनुप्रवेशः, अग्न्यादीनां वागाद्यनुप्रवेशो दृश्यते, “अग्निर्वाग्भूत्वा मुखं प्राविशत्”, “आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्”, “वायुः प्राणो भूत्वा नासिके प्राविश"दित्यादौ॥
दृश्यते तु।
तुशब्दः पक्षं व्यावर्तयति, माक्षिकादिभ्यो विलक्षणानां क्रिम्यादीनामुत्पत्तिर्दृश्यते; अतो ब्रह्मविलक्षणस्यापि जगतस्तत्कार्यत्वं संभवति॥
असदिति चेन्न प्रतिषेधमात्रत्वात्।
यदि कार्यस्य कारणाद्विलक्षणद्रव्यत्वमभ्युपगम्यते, तर्हि कारणे कार्यं न सद्भवतीत्यसत्कार्यवादोऽभ्युगतस्स्यात्; तथा सति “सर्वं खल्विदं ब्रह्मे"ति सामानाधिकरण्यव्यपदेशो न घटत इति चेत्; तन्न, कार्यकारणयोस्सालक्षण्यनियमप्रतिषेधमात्रत्वादस्माभिः पूर्वमभिहितस्य। कार्यकारणयोरेकद्रव्यत्वं स्वीकृतमेव। एकमेव कारणावस्थं द्रव्यं कार्यावस्थां भजमानं सलक्षणावस्थामपि भजते, विलक्षणावस्थामपीत्यर्थः॥
अपीतौ तद्वत्प्रसङ्गादसमञ्जसम्।
यदि ब्रह्मैव सर्वज्ञं सत्यसङ्कल्पं निरतिशयानन्दमपहतपाप्मत्वादिस्वरूपं तद्विपरीतजगदवस्थां भजते; तर्हि पिण्डत्वघटत्वावस्थमृद्द्रव्यवत् सर्वज्ञत्वमपहतपाप्मत्वमज्ञत्वं कर्मवश्यत्वं च ब्रह्मणः प्रसज्येतेति विरुद्धार्थाभिधानाद्वेदान्तवाक्यमसमञ्जसं स्यात्। अपीताविति सृष्ट्यादेः प्रदर्शनार्थम्। जगतो ब्रह्मण्यपीतौ ब्रह्मण उत्पत्तावपीत्यर्थः। अपीतिरप्ययः॥
न तु दृष्टान्तभावात्।
न ब्रह्मण्यज्ञत्वादयः प्रसज्येरन्; अत एव न वेदान्तानामसामञ्जस्यम्। तुशब्दः प्रसक्तस्यासंभावनीयतां द्योतयति। एकस्यैवावस्थाद्वयान्वयेऽपि गुणदोषव्यवस्थायां दृष्टान्तसद्भावात्, यथा मनुष्यो जातो बालो युवा स्थविरो भवतीत्यत्र मनुष्यशरीरकस्य चेतनस्यैव सर्वावस्थान्वयेऽपि जन्मबालत्वयुवत्वस्थविरत्वादीनि नात्मनि सङ्गच्छन्ते; तथा ज्ञानसुखदुःखादयश्च न शरीरे। एवं चिदचिद्वस्तुशरीरकस्य परस्य ब्रह्मणः, कार्यकारणोभयावस्थान्वयेऽपि कर्मवश्यत्वाज्ञत्वादयः शरीरभूतचिदचिद्वस्तुगताः। अपहतपाप्मत्वसर्वज्ञत्वादयः परमात्मन्यात्मभूतेऽवतिष्ठन्ते। सर्वावस्थस्य चिदचिद्वस्तुनो ब्रह्मशरीरत्वम्, ब्रह्मणश्च तदात्मत्वम्, “यस्य पृथिवी शरीर"मित्याद्यन्तर्यामिब्राह्मणादिषु अवगतमिति न कश्चिद्विरोधः॥
स्वपक्षदोषाच्च।
न केवलं ब्रह्मकारणवादस्य निर्दोषतया तत्समाश्रयणम्, प्रधानकारणवादे दोषाच्चैतत्परित्यज्य स एव समाश्रयणीयः। प्रधानकारणवादे हि निर्विकारस्य चिन्मात्रस्य पुरुषस्य प्रकृतिसन्निधानकृततद्धर्माध्यासमूला जगत्प्रवृत्तिरभ्युपगम्यते; तत्र प्रकृतिसद्भावमात्रे सन्निधाने सति मुक्तस्यापि तद्धर्माध्यासप्रसङ्गः; विकारविशेषे सति सन्निधाने कृत्स्नस्य विकारस्याध्यासपूर्वकत्वान्नाध्यासस्य विकारो हेतुरिति विरुद्धार्थाभिधानादसामञ्जस्यदोष इति न तत्पक्षसंभवगन्धः॥
तर्काप्रतिष्ठानादपि।
कापिलतन्त्रस्य तर्कमूलत्वेन शाक्यादितर्कप्रतिहततयाऽस्य तर्कस्याप्रतिष्ठितत्वाच्च न तत्पक्षसंभवः॥
अन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः।
इतः पूर्वं विद्यमानैस्तर्कैरप्रतिहतत्वं यथा संभवति, तथा प्रधानकारणवादमनुमास्या(मन्या)मह इति चेत्; तथापि तर्काप्रतिष्ठानदोषात् अनिर्मोक्षप्रसङ्गो दुर्वारः, त्वदधिककुतर्ककुशलसद्भाववसंभवात्॥
इति विलक्षणत्वाधिकरणम्॥