02 योगप्रत्युक्त्यधिकरणम्

एतेन योगः प्रत्युक्तः।
किं वेदान्तानां योगस्मृत्योपबृंहणं न्याय्यम्, उत नेति संशयः। न्याय्यमिति पूर्वः पक्षः, कृत्स्नवेदप्रवर्तनाधिकृतहिरण्यगर्भप्रणीतत्वाद्योगस्य, ईश्वरसद्भावाभ्युपगमाच्च। अतो योगस्मृत्योपबृंहितत्वेन वेदान्तानामब्रह्मात्मकप्रधानोपादानप्रतिपादनपरत्वम्। राद्धान्तस्तु - कपिलस्मृतिवद्वेदविरुद्धत्वाविशेषादनादरणीयैव योगस्मृतिः; हिरण्यगर्भस्यापि क्षेत्रज्ञत्वेन भ्रमसंभवात् योगस्मृतेरपि भ्रान्तिमूलकत्वम्। सूत्रमपि व्याख्यातम्।
इति योगप्रत्युक्त्यधिकरणम्॥