स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात्।
वेदान्तानां समस्तचिदचिद्वस्तुविलक्षणास्पृष्टहेयगन्धसर्वज्ञताद्यनन्तकल्याणगुणाकरब्रह्मैकपरत्वं प्रतिपादितं कापिलस्मृतिविरोधेन चालयितुं शक्यम्, उत नेति संशयः। शक्यमिति पूर्वः पक्षः, श्रुतिविरुद्धायाः स्मृतेरनादरणीयत्वे स्थितेऽपि, वेदान्तवेद्यार्थस्य दुर्ग्रहत्वेन अल्पश्रुतैर्मन्दमतिभिराप्तप्रणीतस्मृत्युपबृंहणेन विना तेषां निश्चयो नोपपद्यते। कपिलस्मृतिः केवलतत्त्वपरेति तयैव ह्युपबृंहणं न्याय्यम्। अन्यथा आप्तप्रणीतायाः केवलतत्त्वपरायास्तस्या अनवकाशप्रसङ्ग इति वेदान्तवेद्यं जगत्कारणं प्रधानम्। राद्धान्तस्तु - वेदान्तस्योपबृंहणापेक्षत्वेऽप्याप्ततममन्वादिस्मृतिभिः वेदान्ताविरोधिनीभिरेवोपबृंहणं न्याय्यम्, अन्यथा तासां बह्वीनामनवकाशप्रसङ्गो महानयं दोषस्स्यात्। न च तासां धर्मप्रतिपादनांशोपबृंहणत्वेन सावकाशत्वम्, यतो धर्माणामपि स्वरूपं परब्रह्मभूतपरमपुरुषाराधनत्वम् “इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः। तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमाः” “यज्ञैस्त्वमिज्यसे नित्यं सर्वदेवमयाच्युत” इत्यादिश्रुतिस्मृतिभिः। सूत्रमपि व्याख्यातम्॥
अतीन्द्रियार्थसाक्षात्कारसमर्थस्य कपिलस्य वेदान्तानां ब्रह्मपरत्वानुपलब्धेः प्रधानपरत्वमेवाश्रयणीयमित्यत उत्तरं पठति -
इतरेषां चानुपलब्धेः। (2-1-2)
इतरेषां मन्वादीनां वेदविदग्रेसराणां सर्वातीन्द्रियार्थसाक्षात्कारसमर्थानां प्रधानपरत्वानुपलब्धेर्ब्रह्मपरत्वोपलब्धेश्च ब्रह्मपरत्वमेवाश्रयणीयम्; वेदान्तप्रतिपन्नार्थविरुद्धायास्तु कपिलोपलब्धेर्भ्रान्तिमूलत्वं कल्पयितव्यम्॥
इति स्मृत्यधिकरणम्॥