35 सर्वव्याख्यानाधिकरणम्

एतेन सर्वे व्याख्याता व्याख्याताः॥ (1-4-29)
“यतो वा इमानि” इत्यादिषूदाहृतेषु वाक्येषु, “जन्माद्यस्य यतः” इत्यादिनोक्तन्यायकलापेन सर्वे वेदान्ताः ब्रह्मपरा व्याख्याताः। पदाभ्यासोऽध्यायपरिसमाप्तिद्योतनार्थः॥
इति सर्वव्याख्यानाधिकरणम्॥
इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे प्रथमस्याध्यायस्य चतुर्थः पादः॥
॥ समाप्तश्चाध्यायः॥