प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्। (1-4-23)
परं ब्रह्म किं जगतो निमित्तकारणमात्रम्, उतोपादानकारणमपीति संशयः। निमित्तकारणमात्रमिति पूर्वः पक्षः, मृत्कुलालादौ निमित्तोपादानयोर्भेददर्शनात्; “अस्मान्मायी सृजते विश्वमेतत्” इत्यादिभिर्भेदप्रतिपादनात्, ब्रह्मणोऽविकारत्वश्रुतिविरोधाच्च।
राद्धान्तस्तु - “येनाश्रुतं श्रुतम्” इति ब्रह्मविज्ञानेन सर्वविज्ञानप्रतिज्ञानान्यथानुपपत्त्या “यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयम्” इति मृत्तत्कार्यदृष्टान्तेन तदुपपादनाच्च जगदुपादानकारणमपि ब्रह्मैवेति विज्ञायते। प्रमाणान्तरावसितसकलवस्तुविलक्षणस्य शास्त्रैकसमधिगम्यस्य परस्य ब्रह्मणः सर्वज्ञस्य सर्वशक्तेः कार्यकारणोभयावस्थायामपि स्वशरीरभूतचिदचित्प्रकारतयाऽवस्थितस्यैकस्यैव निमित्तत्वमुपादानत्वं चाविरुद्धम्। शरीरभूताचिद्वस्तुगतो विकार इति कार्यावस्थावस्थितस्यापि शरीरिणः परमात्मनोऽविकारित्वं सिद्धमेव। चिदचिद्वस्तुशरीरस्य ब्रह्मण एवोपादानत्वेऽपि ब्रह्मण्यपुरुषार्थविकारास्पर्शप्रदर्शनाय हि “अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः” इति व्यपदेशः। प्रतिज्ञादृष्टान्तानुपरोधात् उपादानं च ब्रह्मैवेति सूत्रार्थः॥
अभिध्योपदेशाच्च। (1-4-24)
“सोऽकामयत बहु स्याम्”, “तदैक्षत बहु स्यां प्रजायेय” इति स्रष्टुर्ब्रह्मणः स्वस्यैव जगदाकारेण बहुभवनचिन्तनोपदेशाच्च जगदुपादानं निमित्तं च ब्रह्मैवेति निश्चीयते॥
साक्षाच्चोभयाम्नानात्। (1-4-25)
“किं स्विद्वनं क उ स वृक्ष आसीत्” इत्यादिना जगदुपादाननिमित्तादौ पृष्टे, “ब्रह्म वनं ब्रह्म स वृक्ष आसीत् .. ब्रह्माध्यतिष्ठत्” इत्युपादानं निमित्तं चोभयं ब्रह्मैवेति हि साक्षादाम्नायते। अतश्चोभयं ब्रह्म॥
आत्मकृतेः। (1-4-26)
“तदात्मानं स्वयमकुरुत” इति स्रष्टुरात्मन एव जगदाकारेण कृतिरुपदिश्यते; अतश्चोभयं ब्रह्मैव। नामरूपभावाभावाभ्यामेकस्य कर्मकर्तृभावो न विरुद्धः॥
यद्यात्मानमेव ब्रह्म जगदाकारं करोति, तर्हि ब्रह्मणोऽपहतपाप्मत्वादिकमनवधिकातिशयानन्दस्वरूपत्वं सर्वज्ञत्वमित्यादि सर्वं विरुध्यते, अज्ञत्वासुखित्वकर्मवश्यत्वादिविपरीतरूपत्वाज्जगत इत्यत उत्तरं पठति -
परिणामात्। (1-4-27)
अज्ञब्रह्मविवर्तवादे हि तद्भवत्येव, अज्ञानस्य तत्कार्यरूपानन्तापुरुषार्थस्य च वेदान्तजन्यज्ञाननिवर्त्यस्य ब्रह्मण्येवान्वयात्। तदा शास्त्रस्य भ्रान्तजल्पितत्वापाताच्च (पातश्च)। अविभक्तनामरूपसूक्ष्मचिदचिद्वस्तुशरीरकस्य ब्रह्मणः विभक्तनामरूपस्थूलचिदचिद्वस्तुशरीरत्वेन परिणामो हि वेदान्तेषूपदिश्यते, “तद्धेदं तर्ह्यव्याकृतमासीत्। तन्नामरूपाभ्यां व्याक्रियत” इत्येवमादिभिः। अपुरुषार्थाश्च विकाराः शरीरभूतचिदचिद्वस्तुगताः। कारणावस्थायां कार्यावस्थायाञ्चात्मभूतं ब्रह्म अपहतपाप्मत्वादिगुणकमेव। स्थूलसूक्ष्मावस्थस्य कृत्स्नस्य चिदचिद्वस्तुनो ब्रह्मशरीरत्वम्, ब्रह्मणश्च तदात्मत्वम्, “यः पृथिव्यां तिष्ठन् … यस्य पृथिवी शरीरम्” इत्यारभ्य “यस्याव्यक्तं शरीरम्, यस्याक्षरं शरीरम्, यस्य मृत्युः शरीरम्, एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देवः” इत्येवमादिश्रुतिशतसमधिगतम्। अतः सर्वमनवद्यम्॥
योनिश्च हि गीयते। (1-4-28)
“यद् भूतयोनिं परिपश्यन्ति धीराः”, “कर्तारमीशं पुरुषं ब्रह्मयोनिम्” इत्यादिषु सर्वस्य भूतजातस्य परमपुरुषो योनित्वेन गीयते। हिशब्दो हेतौ। यस्मात् योनिरिति गीयते, तस्माच्चोपादानमपि ब्रह्म। योनिशब्दश्चोपादानकारणपर्यायः॥
इति प्रकृत्यधिकरणम्॥