वाक्यान्वयात्। (1-4-19)
बृहदारण्यके मैत्रेयीब्राह्मणे “न वा अरे पत्युः कामाय पतिः प्रियो भवति, आत्मनस्तु कामाय” इत्यारभ्य, “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” इत्यादौ द्रष्टव्यतया निर्दिष्टः पुरुषः तन्त्रसिद्धः, उत परमात्मेति संशयः। तन्त्रसिद्धः पञ्चविंशकः एवेति पूर्वः पक्षः। पतिजायापुत्रवित्तमित्रपश्वादिप्रियसंबन्धी आत्मा न परमात्मा भवितुमर्हति। स एव हि, “आत्मा वा अरे द्रष्टव्यः” इति प्रतिपाद्यते।
राद्धान्तस्तु - “न पत्यादीनां कामाय पत्यादयः प्रिया भवन्ति, आत्मनस्तु कामाय” इत्युक्त्वा, “आत्मा वा अरे द्रष्टव्यः” इति निर्दिष्ट आत्मा, जीवातिरिक्तः सत्यसङ्कल्पः सर्वज्ञः परमात्मैव, यत्सङ्कल्पायत्तं पत्यादीनां स्वसंबन्धिनः प्रति प्रियत्वम्, स हि सत्यसंकल्पः परमात्मा। आत्मज्ञानेन सर्वज्ञानादयोऽपि वक्ष्यमाणाः परमात्मन्येव संभवन्ति।
सूत्रार्थस्तु - वाक्यस्य कृत्स्नस्य परमात्मन्येवान्वयात् द्रष्टव्यतया निर्दिष्ट आत्मा परमात्मैव, “अमृतत्वस्य तु नाऽऽशास्ति वित्तेन”, “आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम्”, “इदं सर्वं यदयमात्मा”,“तस्य ह वा एतस्य महतो भूतस्य निःश्वसितमेत् यद् ऋग्वेदः”, “येनेदं सर्वं विजानाति तं केन विजानीयात्” इति हि कृत्स्नस्य वाक्यस्य परमात्मन्यन्वयो दृश्यते॥
“एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति” इति जीवलिङ्गस्य मतान्तरेण निर्वाहमाह -
प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः। (1-4-20)
एकविज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धये, जीवस्य परमात्मकार्यतया परमात्मनोऽनन्यो जीव इति जीवशब्देन परमात्मनोऽभिधानमित्याश्मरथ्यमतम्॥
उत्क्रमिष्यत एवं भावादित्यौडुलोमिः। (1-4-21)
“परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते” इति शरीरात् उत्क्रमिष्यतः अस्य जीवस्य परमात्मभावात् जीवशब्देन परमात्मनोऽभिधानमिति औडुलोमिराचार्यो मेने॥
अवस्थितेरिति काशकृत्स्नः। (1-4-22)
“य आत्मनि तिष्ठन्” इत्यादिभिर्जीवात्मन्यन्तरात्मतया परमात्मनः अवस्थितेः जीवात्मशब्दस्य परमात्मनि पर्यवसानात् जीवात्मशब्देन परमात्मनोऽभिधानमिति काशकृत्स्नः आचार्यो मन्यते। इदमेव सूत्रकाराभिमतमित्यवगम्यते, त्रयाणामन्योन्यविरोधात्, इतः परमवचनाच्च॥
इति वाक्यान्वयाधिकरणम्॥