जगद्वाचित्वात्। (1-4-16)
कौषीतकिनां “ब्रह्म ते ब्रवाणि” इत्युपक्रम्य, “यो वै बालाक एतेषां पुरुषाणां कर्ता, यस्य वैतत्कर्म, स वै वेदितव्यः” इत्यत्र वेदितव्यतयोपदिष्टः साङ्ख्यतन्त्रसिद्धः पुरुषः? उत परमात्मेति संशयः। पुरुष एव प्रकृतिवियुक्त इति पूर्वः पक्षः, “यस्य वैतत्कर्म” इति पुण्यपापरूपकर्मसम्बन्धितयोपलक्षितत्वात्।
राद्धान्तस्तु - “यस्य वैतत्कर्म” इति कर्मशब्दस्य क्रियत इति व्युत्पत्त्या जगद्वाचित्वात् कृत्स्नं जगद्यस्य कार्यम्, स परमपुरुष एव वेदितव्यतयोपदिष्टो भवतीति। सूत्रमपि व्याख्यातम्॥
जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम्। (1-4-17)
“एवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते” इत्यादि भोक्तृत्वरूपजीवलिङ्गात्, “अथास्मिन् प्राण एवैकधा भवति” इति मुख्यप्राणलिङ्गाच्च नायं परमात्मेति चेत् - तस्य परिहारः प्रतर्दनविद्यायामेव व्याख्यातः। पूर्वापरप्रकरणपर्यालोचनया परमात्मपरमिदं वाक्यमिति निश्चिते सति अन्यलिङ्गानि तदनुगुणतया नेतव्यानीत्यर्थः॥
ननु “तौ ह सुप्तं पुरुषमाजग्मतुः” इति प्राणनामभिरामन्त्रणाश्रवणयष्टिघातोत्थापनादिना शरीरेन्द्रियप्राणाद्यतिरिक्तजीवात्मसद्भावप्रतिपादनपरमिदं वाक्यमित्यवगम्यत इत्यत उत्तरं पठति -
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके। (1-4-18)
तुशब्दः शङ्कानिवृत्त्यर्थः। जीवसङ्कीर्तनम् अन्यार्थम् - जीवातिरिक्तब्रह्मसद्भावप्रतिबोधनार्थमिति प्रश्नप्रतिवचनाभ्यामवगम्यते। प्रश्नस्तावत् जीवप्रतिपादनानन्तरं, “क्वैष एतद्वालाके पुरुषोऽशयिष्ट” इत्यादिकः सुषुप्तजीवाश्रयविषयतया परमात्मपर इति निश्चितः। प्रतिवचनमपि “अथास्मिन् प्राण एवैकधा भवति” इत्यादिकं परमात्मविषयमेव। सुप्तपुरुषाश्रयतया हि प्राणशब्दनिर्दिष्टः परमात्मैव, “सता सोम्य तदा संपन्नो भवति” इत्यादिभ्यः। जैमिनिग्रहणमुक्तस्यार्थस्य पूज्यत्वाय। अपि चैवमेके - एके वाजसनेयिनः इदमेव बालाक्यजातशत्रुसंवादगतं प्रश्नप्रतिवचनरूपं वाक्यं परमात्मविषयं स्पष्टमधीयते, “क्वैष एतत्” इत्यादि, “य एषोऽन्तर्हृदय आकाशस्तस्मिञ्च्छेते” इत्येतदन्तम्॥
इति जगद्वाचित्वाधिकरणम्॥