कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः। (1-4-14)
जगत्कारणवादीनि वेदान्तवाक्यानि किं प्रधानकारणतावादैकान्तानि, उत ब्रह्मकारणतावादैकान्तानीति संशयः। प्रधानकारणतावादैकान्तानीति पूर्वः पक्षः, “सदेव सोम्येदमग्र आसीत्” इति क्वचित् सत्पूर्विका सृष्टिराम्नायते; अन्यत्र “असदेवेदमग्र आसीत्”, “असद्वा इदमग्र आसीत्”, तथा “तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियत” इति। अव्याकृतं हि प्रधानम्। अतः प्रधानकारणतावादनिश्चयात् तदेकान्तान्येव।
राद्धान्तस्तु - “सत्यं ज्ञानमनन्तं ब्रह्म” इत्युपक्रम्य “तस्माद्वा एतस्मादात्मन आकाशस्संभूतः”, “तदैक्षत बहु स्यां प्रजायेयेति; तत्तेजोऽसृजत” इत्यादिषु सर्वज्ञस्य परस्य ब्रह्मणः कारणत्वप्रतिपादनात् तस्यैव ब्रह्मणः कारणावस्थायां नामरूपविभागसंबन्धितया सद्भावाभावात् असदव्याकृतादिशब्देन व्यपदेश इति ब्रह्मकारणतावादैकान्तान्येव।
सूत्रार्थस्तु - आकाशादिपदचिह्नितेषु “तस्माद्वा एतस्मादात्मन आकाशस्संभूतः” इत्यादिषु सर्वज्ञस्य परस्य ब्रह्मणः कारणत्वप्रतिपादनात्, सर्वेषु सृष्टिवाक्येषु यथाव्यपदिष्टस्यैव कारणत्वेनोक्तेः ब्रह्मकारणतावादैकान्तानि। यथाव्यपदिष्टम् - सार्वात्म्यादियुक्ततयाऽस्माभिर्व्यपदिष्टम्॥
तथा सति “असद्वा इदमग्र आसीत्” इति किं ब्रवीतीत्यत आह -
समाकर्षात्। (1-4-15)
“सोऽकामयत, बहु स्यां प्रजायेयेति” इति बहुभवनसङ्कल्पपूर्वकं जगत् सृजतो ब्रह्मणः सर्वज्ञस्य, “असद्वा इदमग्र आसीत्” इत्यत्र समाकर्षात् कारणावस्थायां नामरूपसंबन्धित्वाभावेन असदिति ब्रवीति। एवं “तद्धेदं तर्ह्यव्याकृतमासीत्” इत्यादिषु, “स एष इहानुप्रविष्ट आनखाग्रेभ्यः”, “पश्यन् चक्षुः” इत्यादिपूर्वापरपर्यालोचनया तत्रतत्र सर्वज्ञस्य समाकर्षो द्रष्टव्यः॥
इति कारणत्वाधिकरणम्॥