न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च। (1-4-11)
वाजसनेयके “यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः। तमेवंमन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम्” इत्यत्र किं साङ्ख्योक्तानि पञ्चविंशतितत्त्वानि प्रतिपाद्यन्ते, उत नेति संशयः। तान्येवेति पूर्वः पक्षः। “पञ्च पञ्चजनाः” इति हि पञ्चसङ्ख्याविशिष्टाः पञ्चजनाः पञ्चविंशतिः संपद्यन्ते। कथम्? पञ्चजना इति समाहारविषयोऽयं समासः; “पञ्चपूल्यः” इतिवत्। पञ्चभिर्जनैरारब्धः समूहः पञ्चजनः। पञ्चजनीत्यर्थः। लिङ्गव्यत्ययश्छान्दसः। “पञ्चजनाः” इति बहुवचनात् समूहबहुत्वं चावगम्यते। ते च कतीत्यपेक्षायां “पञ्च पञ्चजनाः” इति पञ्चशब्दविशेषिताः पञ्चजनसमूहा इति पञ्चविंशतिस्तत्त्वानि भवन्ति। मोक्षाधिकारात् तान्त्रिकाण्येवेति निश्चीयन्ते। एवं निश्चिते सति “तमेवंमन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम्” इति पञ्चविंशकमात्मानं ब्रह्मभूतं विद्वान् अमृतो भवतीति।
राद्धान्तस्तु - “यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः” इति यच्छब्दनिर्दिष्टब्रह्माधारत्वादाधेयानां तत्त्वानां ब्रह्मात्मकत्वमवगम्यते। यच्छब्दनिर्दिष्टं च “तमेवंमन्य आत्मानम्”, (इति तच्छब्देन परामृश्य, “ब्रह्मामृतोऽमृतम्”) इति निर्देशात् ब्रह्मेति निश्चीयते। अतो न तान्त्रिकप्रसङ्गः॥
सूत्रार्थस्तु - “पञ्च पञ्चजना” इत्यत्र पञ्चविंशतिसङ्ख्योपसङ्ग्रहादपि न तान्त्रिकाणि इमानि तत्त्वानि; यस्मिन्निति यच्छब्दनिर्दिष्टब्रह्माधारतया तान्त्रिकेभ्यो नानाभावात् - एषां तत्त्वानां पृथग्भावादित्यर्थः। अतिरेकाच्च - तान्त्रिकेभ्यस्तत्त्वातिरेकप्रतीतेश्च यस्मिन्निति निर्दिष्टमतिरिक्तम् आकाशश्च। “न सङ्ख्योपसङ्ग्रहादपि” इत्यपिशब्देन सङ्ख्योपसङ्ग्रहो न संभवतीत्याह; आकाशस्य पृथङ्निर्देशात्। अतः पञ्चजनाः इति न समाहारविषयः, अपि तु “दिक्सङ्ख्ये संज्ञायाम्” इति संज्ञाविषयः; पञ्चजनसंज्ञिताः केचित्, ते च पञ्चैवेति; सप्त सप्तर्षयः इतिवत्॥
प्राणादयो वाक्यशेषात्। (1-4-12)
पञ्चजनसंज्ञिताः पञ्च पदार्थाः प्राणादय इति वाक्यशेषादवगम्यते। “प्राणस्य प्राणमुत चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुः” इति। ब्रह्मात्मकानीन्द्रियाणि “पञ्च पञ्चजना” इति निर्दिष्टानि। जननाच्च जनाः॥
काण्वपाठेऽन्नवर्जितानां चतुर्णां निर्देशात् पञ्चजनसंज्ञितानीन्द्रियाणीति कथं ज्ञायत इत्यत्राह -
ज्योतिषैकेषामसत्यन्ने। (1-4-13)
एकेषां - काण्वानां वाक्यशेषे असत्यन्नशब्दे वाक्योपक्रमगतेन, “तं देवा ज्योतिषां ज्योतिः” इति ज्योतिश्शब्देन पञ्चजनाः इन्द्रियाणीति विज्ञायन्ते। कथम्? “ज्योतिषां ज्योतिः” इति ब्रह्मणि निर्दिष्टे प्रकाशकानां प्रकाशकं ब्रह्मेति प्रतीयते। के ते प्रकाशकाः? इत्यपेक्षायां, “पञ्च पञ्चजनाः” इत्यनिर्ज्ञातविशेषाः पञ्चसंख्यासंख्याताः प्रकाशकानि पञ्चेन्द्रियाणीत्यवगम्यते। अतः “यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः” इतीन्द्रियाणि भूतानि च ब्रह्मणि प्रतिष्ठितानीति न तान्त्रिकतत्त्वगन्धः॥
इति सङ्ख्योपसंग्रहाधिकरणम्।