चमसवदविशेषात्। (1-4-8)
श्वेताश्वतरे “अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः। अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः” इत्यत्र किमजाशब्देन तन्त्रसिद्धा प्रकृतिरभिधीयते, उत ब्रह्मात्मिका इति संशयः। तन्त्रसिद्धेति पूर्वः पक्षः, “अजामेकाम्” इत्यस्या अकार्यत्वप्रतीतेः, बह्वीनां प्रजानां स्वातन्त्र्येण कारणत्वश्रवणाच्च।
राद्धान्तस्तु - न तन्त्रसिद्धायाः प्रकृतेरत्र ग्रहणम्, जननविरहश्रवणमात्रेण तन्त्रसिद्धायाः प्रकृतेः प्रतीतिनियमाभावात्। न हि यौगिकानां शब्दानामर्थप्रकरणादिभिर्विशेष्यव्यवस्थापकैर्विना विशेषे वृत्तिनियमसंभवः; न चास्याः स्वातन्त्र्येण सृष्टिहेतुत्वमिह प्रतीतम्; अपितु सृष्टिहेतुत्वमात्रम्। तत् ब्रह्मात्मिकायाश्च न विरुद्धम्। अत्र तु ब्रह्मात्मिकाया एव शाखान्तरसिद्धायाः एतत्सरूपमन्त्रोदितायाः प्रत्यभिज्ञानात् सैवेति निश्चीयते॥
सूत्रार्थस्तु - नायमजाशब्दस्तन्त्रसिद्धप्रधानविषयः; कुतः? चमसवदविशेषात्। यथा “अर्वाग्बिलश्चमसः” इति मन्त्रे चमनसाधनत्वयोगेन प्रवृत्तस्य चमसशब्दस्य शिरसि प्रवृत्तौ, “यथेदं तच्छिरः; एष ह्यर्वाग्बिलश्चमसः” इति वाक्यशेषे विशेषो दृश्यते, तथा “अजामेकाम्” इत्यजाशब्दस्य तन्त्रसिद्धप्रधाने वृत्तौ विशेषाभावान्न तद्ग्रहणं न्याय्यम्॥
अस्ति तु ब्रह्मात्मिकाया एव ग्रहणे विशेष इत्याह -
ज्योतिरुपक्रमा तु तथाह्यधीयत एके। (1-4-9)
ज्योतिः - ब्रह्म, यस्याः उपक्रमः - कारणम्, सा ज्योतिरुपक्रमा। तुशब्दोऽवधारणे। ब्रह्मकारणिकैवैषाऽजा; तथा ह्यधीयत एके। यथारूपोऽयमजायाः प्रतिपादको मन्त्रः; तथारूपमेव मन्त्रं ब्रह्मात्मिकायाः तस्याः प्रतिपादकमधीयत एके शाखिनः। “अणोरणीयान् महतो महीयान्” इत्यादिना ब्रह्म प्रतिपाद्य, “सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधः सप्त जिह्वाः। सप्त इमे लोका येषु चरन्ति प्राणा गुहाशयान्निहिताः सप्तसप्त। अतः समुद्रा गिरयश्च सर्वे” इत्यादिना ब्रह्मण उत्पन्नत्वेन ब्रह्मात्मकतया सर्वानुसन्धानविधानसमये “अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम्” इति प्रतिपाद्यमाना ब्रह्मात्मिकैवेति तत्प्रत्यभिज्ञानादिहाप्यजा ब्रह्मात्मिकैवेति निश्चीयते॥
अजात्वं ज्योतिरुपक्रमात्वं च कथमुपपद्यते इत्यत आह -
कल्पनोपदेशाच्च मध्वादिवदविरोधः। (1-4-10)
कल्पना - सृष्टिः, “सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्” इत्यादिदर्शनात्। “अस्मान्मायी सृजते विश्वमेतत्” इति हि सृष्टिरिहोपदिश्यते। प्रलयवेलायामेषा प्रकृतिः परमपुरुषाश्रया कारणावस्थातिसूक्ष्मावयवा शक्तिरूपेणावतिष्ठते; तदवस्थाभिप्रायेणास्या अजात्वम्। सृष्टिवेलायां पुनस्तच्छरीरात् ब्रह्मणः स्थूलावस्था जायते; तदवस्था ज्योतिरुपक्रमेति न कश्चिद्विरोधः। मध्वादिवत् - यथा आदित्यस्यैकस्यैव कार्यावस्थायाम् - “असौ वा आदित्यो देवमधु” इति वस्वादिभोग्यरसाधारतया मधुत्वम्, तस्यैव “अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता” इत्यादिना नामरूपप्रहाणेन कारणावस्थायां सूक्ष्मस्यैकस्यैवावस्थानं न विरुध्यते; तद्वत्॥
इति चमसाधिकरणम्॥