आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च। (1-4-1)
कठवल्लीषु “इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः। मनसश्च परा बुद्धिर्बुद्धेरात्मा महान्परः॥
महतः परमव्यक्तमव्यक्तात् पुरुषः परः। पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः॥”
इत्यत्र किं साङ्ख्योक्तं प्रधानमव्यक्तशब्दाभिधेयम्, उत नेति संशयः। प्रधानमिति पूर्वः पक्षः, “महतः परम्” इत्यादितत्तन्त्रप्रक्रियाप्रत्यभिज्ञानात्, “पुरुषान्न परं किञ्चित्” इति पञ्चविंशकपुरुषातिरिक्ततत्त्वनिषेधाच्च।
राद्धान्तस्तु - नाव्यक्तशब्देन प्रधानमिह गृह्यते। पूर्वत्र “आत्मानं रथिनं विद्धि शरीरं रथमेव च” इत्यादिना उपासनानिर्वृत्तये वश्येन्द्रियत्वापादनाय, ये आत्मशरीरबुद्धिमनइन्द्रियविषयाः, रथिरथसारथिप्रग्रहहयगोचरत्वेन रूपिताः तेषु वशीकार्यत्वे पराः, “इन्द्रियेभ्यः पराः” इत्यादिनोच्यन्ते; तत्र चेन्द्रियादयः स्वशब्देनैव गृह्यन्ते। रथत्वेन रूपितं शरीरमिहाव्यक्तशब्देन गृह्यत इति नेह तत्तन्त्रप्रक्रियाप्रत्यभिज्ञागन्धः। “अव्यक्तात् पुरुषः परः” इति च न पञ्चविंशकः; अपि तु प्राप्यः परमात्मैव। अन्तर्यामितयोपासनस्याप्युपायभूत इति स इह वशीकार्यकाष्ठात्वेन “पुरुषान्न परं किञ्चित्” इत्युक्तः॥
सूत्रार्थस्तु - एकेषां कठानां शाखायाम्, आनुमानिकं प्रधानं जगत्कारणत्वेन “महतः परमव्यक्तम्” इत्याम्नायते इति चेत् - तन्न; अव्यक्तशब्देन शरीराख्यरूपकविन्यस्तस्य गृहीतेः - पूर्वत्रात्मादिषु रथिरथादिरूपकविन्यस्तेषु रथत्वेन रूपितस्य शरीरस्यात्राव्यक्तशब्देन गृहीतेरित्यर्थः। अतो वशीकार्यत्वे पराः इहोच्यन्ते। दर्शयति चैनमर्थं वाक्यशेषः, इन्द्रियादीनां नियमनप्रकारं प्रतिपादयन्; “यच्छेत् वाङ्मनसी” इत्यादिः॥
कथमव्यक्तशब्दस्य शरीरं वाच्यं भवतीत्याशङ्क्याह -
सूक्ष्मं तु तदर्हत्वात्। (1-4-2)
तुशब्दोऽवधारणे। सूक्ष्मम् - अव्यक्तमेवावस्थान्तरापन्नं शरीरं भवति, तदवस्थस्यैव कार्यार्हत्वात्॥
यदि रूपकविन्यस्ता आत्मादय एव वशीकार्यत्वे पराः, “इन्द्रियेभ्यः पराः” इत्यादिना गृह्यन्ते; तर्हि “अव्यक्तात् पुरुषः परः, पुरुषान्न परं किञ्चित्” इति पुरुषग्रहणं किमर्थमित्यत आह -
तदधीनत्वादर्थवत्। (1-4-3)
अन्तर्यामिरूपेणावस्थितपुरुषाधीनत्वात् आत्मादिकं सर्वं रथिरथत्वादिना रूपितम् अर्थवत् प्रयोजनवद्भवति। अत उपासननिर्वृत्तौ वशीकार्यकाष्ठा परमपुरुष इति, तदर्थमिह रूपकविन्यस्तेषु परिगृह्यमाणेषु, पुरुषस्यापि ग्रहणम्। प्राप्यश्चेति “पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः” इत्युक्तम्। भाष्यप्रक्रियया वा नेयमिदं सूत्रम् - परमपुरुषशरीरतया तदधीनत्वात् भूतसूक्ष्ममव्याकृतमर्थवदिति तदिहाव्यक्तशब्देन गृह्यते; नाब्रह्मात्मकं स्वनिष्ठं तन्त्रसिद्धमिति॥
ज्ञेयत्वावचनाच्च (1-4-4)
यदि तन्त्रसिद्धप्रक्रियेहाभिप्रेता, तदाऽव्यक्तस्यापि ज्ञेयत्वं वक्तव्यम्। “व्यक्ताव्यक्तज्ञविज्ञानात्” इति हि तत्प्रक्रिया। न ह्यव्यक्तमिह ज्ञेयत्वेनोक्तम्, अतश्चात्र न तन्त्रप्रक्रियागन्धः॥
वदतीति चेन्न प्राज्ञो हि प्रकरणात्। (1-4-5)
“अशब्दमस्पर्शम्” इत्युपक्रम्य “महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते” इति प्रधानस्य ज्ञेयत्वमनन्तरमेव वदतीयं श्रुतिरिति चेत् - तन्न; “अशब्दमस्पर्शम्” इत्यादिना प्राज्ञः परमपुरुष एव ह्यत्रोच्यते; “सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्”, “एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते” इति प्राज्ञस्यैव प्रकृतत्वात्॥
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च। (1-4-6)
अस्मिन् प्रकरणे “येयं प्रेते विचिकित्सा मनुष्ये” इत्यारभ्य आसमाप्तेः परमपुरुषतदुपासनोपासकानां त्रयाणामेव एवं ज्ञेयत्वेन उपन्यासः प्रश्नश्च दृश्यते, न प्रधानादेस्तान्त्रिकस्यापि। अतश्च न प्रधानमिह ज्ञेयत्वेनोक्तम्॥
महद्वच्च। (1-4-7)
यथा “बुद्धेरात्मा महान् परः” इत्यात्मशब्दसामानाधिकरण्यात् महच्छब्देन न तान्त्रिकं महत्तत्त्वं गृह्यते, एवमव्यक्तशब्देनापि न तान्त्रिकं प्रधानम्॥
इति आनुमानिकाधिकरणम्॥