27 अर्थान्तरत्वादिव्यपदेशाधिकरणम्

आकाशोऽर्थान्तरत्वादिव्यपदेशात्।
छान्दोग्ये “आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा” (छां.उ. ८-१४-१) इत्यत्राकाशशब्दनिर्दिष्टः किं मुक्तात्मा, उत परमात्मेति संशयः। मुक्त इति पूर्वः पक्षः, “धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामि” (छां.उ. ८-१३-१) इति मुक्तस्यानन्तरप्रकृतत्वात्। राद्धान्तस्तु - “नामरूपयोर्निर्वहिता ते यदन्तरा” (छां.उ. ८-१४-१) इति स्वयमस्पृष्टनामरूपतया नामरूपयोर्निर्वोढृत्वेन श्रूयमाणोऽयमाकाशो बद्धमुक्तोभयावस्थात्प्रत्यगात्मनोऽर्थान्तरत्वात्परमात्मैव। सूत्रार्थस्तु - आकाशः परमात्मा, तस्य नामरूपयोर्निर्वोढृत्वतदस्पर्शलक्षणार्थान्तरत्वव्यपदेशात्। प्रत्यगात्मनो ह्यर्थान्तरभूत एव नामरूपयोर्निर्वोढा। बद्धावस्थस्तावन्नामरूपाभ्यां स्पृष्टस्तत्परवशश्चेति न निर्वोढा; मुक्तस्यापि जगद्व्यापाररहितत्वान्न निर्वोढृत्वम्। आदिशब्देन निरुपाधिकब्रह्मत्वामृतत्वात्मत्वादीनि गृह्यन्ते; तानि निरुपाधिकानि मुक्तस्यापि न संभवन्ति॥४२॥

ननु तत्त्वमस्यादिनैक्यव्यपदेशात्, “नेह नानाऽस्ति” (बृ.उ. ६-४-११) इति भेदप्रतिषेधाच्च न प्रत्यगात्मनोऽर्थान्तरभूतः परमात्मेत्याशङ्क्याह - सुषुप्त्युत्क्रान्त्योर्भेदेन। (१-३-४३)
“व्यपदेशात्” इति वर्तते। “प्राज्ञेनाऽऽत्मना संपरिष्वक्तः” (बृ.उ. ६-३-२१) “प्राज्ञेनाऽऽत्मनाऽन्वारूढः” (बृ.उ. ६-३-३५) इति सुषुप्त्युत्क्रान्त्योः लुप्तसकलविशेषविज्ञानात्प्रत्यगात्मनस्तदानीमेव सर्वज्ञतया भेदव्यपदेशात्प्रत्यगात्मनोऽर्थान्तरभूत एव परमात्मा॥४३॥

पत्यादिशब्देभ्यः।
परिष्वञ्जके प्राज्ञे, श्रूयमाणेभ्यः पत्यादिशब्देभ्यश्चायं प्रत्यगात्मनोऽर्थान्तरभूतः परमात्मा, “सर्वस्याधिपतिस्सर्वस्य वशी सर्वस्येशानः” (बृ.उ. ६-४-२२) इत्यादौ। ऐक्योपदेशभेदप्रतिषेधौ तु ब्रह्मकार्यत्वनिबन्धनाविति “तज्जलानिति” (छां.उ. ३-१४-१) “सर्वं खल्विदं ब्रह्म” (छां.उ. ३-१४-१) इत्यादिश्रुतिभिरेव व्यक्तौ॥४४॥
॥इति अर्थान्तरत्वादिव्यपदेशाधिकरणम्॥
॥इति श्रीभगवद्रामानुजविरचिते वेदान्तदीपे प्रथमस्याध्यायस्य तृतीयः पादः॥