26 अपशूद्राधिकरणम्

शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि।
ब्रह्मविद्यायां शूद्रस्याप्यधिकारोऽस्ति नेति संशयः। अस्तीति पूर्वः पक्षः, अर्थित्वसामर्थ्यसंभवात्; शूद्रस्यानग्निविद्यत्वेऽपि मनोवृत्तिमात्रत्वादुपासनस्य संभवति हि सामर्थ्यम्। ब्रह्मस्वरूपतदुपासनप्रकारज्ञानं चेतिहासपुराणश्रवणादेव निष्पद्यते। अस्ति हि शूद्रस्यापीतिहासपुराणश्रवणानुज्ञा, “श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः” (म.स्मृ?) (भारते. शा. १२-३१४-४५) इति। तथा तत्रैव विदुरादीनां ब्रह्मनिष्ठत्वं दृश्यते। उपनिषत्स्वपि - “आजहारेमाश्शूद्रानेनैव मुखेनालापयिष्यथाः” (छा.उ. ४-२-५) इति शूद्रशब्देनामन्त्र्य ब्रह्मविद्योपदेशदर्शनाच्छूद्रस्यापीहाधिकारस्सूच्यते। राद्धान्तस्तु - उपासनस्य मनोवृत्तिमात्रत्वेऽप्यनधीतवेदस्य शूद्रस्य उपासनोपायभूतज्ञानासंभवात् न सामर्थ्यसंभवः। कर्मविधिवदुपासनाविधयोऽपि त्रैवर्णिकविषयाध्ययनगृहीतस्वाध्यायोत्पन्नज्ञानमेवोपासनोपायतया स्वीकुर्वते। इतिहासादयोऽपि स्वाध्यायसिद्धमेव ज्ञानमुपबृंहयन्तीति ततोऽपि नास्य ज्ञानलाभः। श्रवणानुज्ञा तु पापक्षयादिफला। विदुरादीनां तु भवान्तरवासनया ज्ञानलाभात् ब्रह्मनिष्ठत्वम्। शूद्रेत्यामन्त्रणमपि न चतुर्थवर्णत्वेन; अपि तु ब्रह्मविद्यावैकल्यात् शुगस्य संजातेति। अतो न शूद्रस्याधिकारः। सूत्रार्थस्तु - ब्रह्मविद्यावैकल्येन हंसोक्तानादरवाक्यश्रवणात् तदैवाचार्यं प्रत्याद्रवणाच्चाचार्येण तस्य शुश्रूषोर्विद्याऽलाभकृता शुक्सूच्यते। हिशब्दो हेतौ। यस्मादस्य शुक्सूच्यते, अतश्शोचनाच्छूद्र इति कृत्वा आचार्यो रैक्वः जानश्रुतिं शूद्रेत्यामन्त्रयते; न जातियोगेनेत्यर्थः॥३३॥

क्षत्रियत्वगतेश्च।
अस्य शुश्रूषोः क्षत्रियत्वावगतेश्च न जातियोगेन शूद्रेत्यामन्त्रणम्। प्रकरणप्रक्रमे हि “बहुदायी” (छां.उ. ४-१-१) इत्यादिना दानपतित्वबहुतरपक्वान्नदायित्वक्षत्तृप्रेषणबहुग्रामादिप्रदानैरस्य जानश्रुतेश्शुश्रूषोः क्षत्रियत्वं प्रतीतम्॥३४॥

उत्तरत्र चैत्ररथेन लिङ्गात्।
उपरिष्टाच्चास्यां विद्यायां ब्राह्मणक्षत्रिययोरेवान्वयो दृश्यते “अथ ह शौनकं च कापेयमभिप्रतारिणञ्च” (छां.उ. ४-३-५) इत्यादिना। अभिप्रतारी हि चैत्ररथः क्षत्रियः। अभिप्रतारिणश्चैत्ररथत्वं क्षत्रियत्वं च कापेयसाहचर्याल्लिङ्गादवगम्यते; प्रकरणान्तरे हि कापेयसहचारिणः चैत्ररथत्वं क्षत्रियत्वञ्चावगतम् “एतेन वै चैत्ररथं कापेया अयाजयन्” (ताण्ड्य. २-१२-५) इति, “तस्माच्चैत्ररथो नामैकः क्षत्रपतिरजायत” (शत. ११-५-३१३) इति च। अतोऽस्यां विद्यायामन्वितो ब्राह्मणादितरो जानश्रुतिरपि क्षत्रियो भवितुमर्हति॥३५॥

संस्कारपरामर्शात् तदभावाभिलापाच्च।
विद्योपदेशे, “उप त्वा नेष्ये” (छां.उ. ४-४-५) इत्युपनयनसंस्कारपरामर्शात्, शूद्रस्य तदभाववचनाच्चानधिकारः। “न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हति” (म.स्मृ. १०-१२३) इति हि निषिध्यते॥३६॥

तदभावनिर्धारणे च प्रवृत्तेः।
“नैतदब्राह्मणो विवक्तुमर्हति समिधं सौम्याहर” (छां.उ. ४-४-५) इति शुश्रूषोर्जाबालेश्शूद्रत्वाभावनिश्चय एवोपदेशे प्रवृत्तेर्नाधिकारः॥३७॥

श्रवणाध्ययनार्थप्रतिषेधात्।
शूद्रस्य श्रवणाध्ययनादीनि हि प्रतिषिध्यन्ते “तस्माच्छूद्रसमीपे नाध्येतव्यम्” () इति। अनुपशृण्वतोऽध्ययनादिर्न संभवति॥३८॥

स्मृतेश्च।
स्मर्यते च शूद्रस्य वेदश्रवणादौ दण्डः, “अथ हास्य वेदमुपशृण्वतः त्रपुजतुभ्यां श्रोत्रप्रतिपूरणमुदाहरणे जिह्वाच्छेदो धारणे शरीरभेदः” (गौ.ध.सू. १-२-१) इति॥३९॥
॥इति प्रमिताधिकरणगर्भे अपशूद्राधिकरणम्॥