मध्वादिष्वसम्भवादनधिकारं जैमिनिः।
छान्दोग्ये “असौ वा आदित्यो देवमधु” (छा.उ. ३-१-१) इत्युपक्रम्य “तद्यत्प्रथमममृतं तद्वसव उपजीवन्ति” (छा.उ. ३-६-१) इत्युक्त्वा, “स य एतदेवममृतं वेद, वसूनामेवैको भूत्वाऽग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति” (छा.उ. ३-६-३) इत्यादिना ऋग्यजुस्सामादिवेदोदितकर्मसंपाद्यरसाधारतया मधुमयस्यादित्यस्य पूर्वदक्षिणपश्चिमोत्तरोर्ध्वांशान्वसुरुद्रादित्यमरुत्साध्यनाम्नां देवगणानां भोग्यत्वेनाभिधाय, तैर्भुज्यमानाकारेणादित्यांशानुपास्यानुपदिश्य, तानेवादित्यांशान् तथाभूतान्प्राप्यानुपदिशति। एवमादिषूपासनेषु वस्वादित्यादीनामधिकारोऽस्ति, न वेति संशयः। नास्त्यधिकार इति पूर्वः पक्षः, वस्वादीनामुपास्यान्तर्गतत्वेन कर्मकर्तृभावविरोधात्, प्राप्यस्य वसुत्वादेः प्राप्तत्वाच्च। राद्धान्तस्तु - ब्रह्मण एव तदवस्थस्योपास्यत्वात् वस्वादीनां सतां स्वावस्थब्रह्मानुसन्धानाविरोधात्, कल्पान्तरे वसुत्वादेः प्राप्यत्वाविरोधाच्च वस्वादीनामधिकारस्संभवतीति। सूत्रार्थस्तु - मधुविद्यादिषु वस्वादीनामनधिकारं जैमिनिर्मन्यते, असंभवात् - वस्वादीनामेवोपास्यानामुपासकत्वासंभवात्, वसुत्वादेः प्राप्तत्वादेव प्राप्यत्वासंभवाच्च॥३०॥
ज्योतिषि भावाच्च।
“तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्” (बृ.उ. ६-४-१६) इति ज्योतिषि परस्मिन् ब्रह्मणि देवमनुष्ययोरधिकारसाधारण्ये सत्यपि,“ज्योतिषां ज्योतिः परं ब्रह्म देवा उपासते”, इति विशेषवचनं वस्वादीनां कर्मकर्तृभावविरोधात् तेषु तेषामनधिकारं द्योतयति । देवाः इति सामान्यवचनञ्च वस्वादिविशेषविषयमित्यवगम्यते, अन्येषामविरोधात्॥३१॥
भावं तु बादरायणोऽस्ति हि।
“तु” शब्दः पक्षं व्यावर्तयति। वस्वादीनां मधुविद्यादिष्वधिकारसद्भावं भगवान् बादरायणो मन्यते। अस्ति हि वस्वादीनामेवोपास्यत्वं प्राप्यत्वं च। इदानीं वसूनामेव सतां कल्पान्तरे वसुत्वस्य प्राप्यत्वसंभवात्प्राप्यत्वं संभवति। स्वात्मनां ब्रह्मभावानुसन्धानसंभवादुपास्यत्वं च संभवति। “य एतामेवं ब्रह्मोपनिषदं वेद” (छां.उ. ३-११-३) इति हि कृत्स्नाया मधुविद्यायाः ब्रह्मविद्यात्वमवगम्यते॥३२॥
॥इति प्रमिताधिकरणगर्भे मध्वधिकरणम्॥