24 देवताधिकरणम्

तदुपर्यपि बादरायणः सम्भवात्।
मनुष्याधिकारं ब्रह्मोपासनशास्त्रमित्युक्तम्। तत्प्रसङ्गेन देवादीनामपि ब्रह्मविद्यायामधिकारोऽस्ति नवेति चिन्त्यते। न देवादीनामधिकारोऽस्तीति पूर्वः पक्षः, परिनिष्पन्ने ब्रह्मणि शब्दस्य प्रामाण्यसंभवेऽपि देवादीनां विग्रहादिमत्त्वे प्रमाणाभावात्, मन्त्रार्थवादानामपि विधिशेषतया विग्रहादिसद्भावपरत्वाभावात्, विग्रहवन्निर्वर्त्याहरहरनुष्ठीयमानविवेकादिसाधनसप्तकसंस्कृतमनोनिष्पाद्योपासननिर्वृत्तौ तेषां सामर्थ्याभावात्। राद्धान्तस्तु - जगत्सृष्टिप्रकरणेषु नामरूपव्याकरणश्रुत्यैव देवादीनां विग्रहादिमत्त्वं सिध्यति। देवादीनां देहेन्द्रियादिकरणमेव हि नामरूपव्याकरणम्, मन्त्रार्थवादयोश्च तदुपलब्धेः, तयोरनुष्ठेयप्रकाशनस्तुतिपरत्वेऽपि तदुपपत्तये तत्सद्भावे प्रमाणत्वाद्देवादीनां विग्रहादिमत्त्वसिद्धिः, न हि विग्रहादिमत्तया स्तुतिः प्रकाशनं च तदभावे संभवति। अतस्सामर्थ्यसंभवादस्त्येवाधिकारः। सूत्रार्थस्तु - तदुपर्यपि, तेभ्यः - मनुष्येभ्यः उपरिवर्तमानानां देवादीनाम् अप्यधिकारोऽस्ति। यद्वा तत् - ब्रह्मोपासनम्, उपरि - देवादिष्वपि संभवति; तेषामपि ब्रह्मस्वरूपतदुपासनप्रकारज्ञानतदर्थित्वतदुपादानसामर्थ्यसंभवात्। पूर्वोपार्जितज्ञानाविस्मरणात् ज्ञानसंभवः तापत्रयाभिहतिपूर्वकब्रह्मगुणज्ञानाच्चार्थित्वसंभवः; सृष्टिवाक्यमन्त्रार्थवादेषु विग्रहवत्त्वादिदर्शनात् सामर्थ्यसंभवश्चेति भगवान् बादरायणो मन्यते॥२५॥

विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात्।
कर्मणि - यागादौ, विग्रहवत्त्वे सति एकस्य युगपदनेकयागेषु सन्निधानानुपपत्तेर्विरोधः प्रसज्यत इति चेत्; तन्न, शक्तिमतां सौभरिप्रभृतीनां युगपदनेकशरीरप्रतिपत्तिदर्शनात्॥२६॥

शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम्।
“विरोध” इति वर्तते; मा भूत्कर्मणि विरोधः, शब्दे तु वैदिके विरोधः प्रसज्यते, विग्रहवत्त्वे हि तेषां सावयवत्वेनोत्पत्तिविनाशयोगादुत्पत्तेः प्राक् विनाशादूर्ध्वं च, वैदिकानामिन्द्रादिशब्दानामर्थशून्यत्वमनित्यत्वं वा स्यादिति चेत्; तन्न, अतः प्रभवात् - अतः - वैदिकादेव शब्दात् इन्द्रादेः प्रभवात्। पूर्वपूर्वेन्द्रादौ विनष्टे वैदिकादिन्द्राद्याकृतिविशेषवाचिनश्शब्दादिन्द्राद्याकृतिविशेषं स्मृत्वा, तदाकारमपरमिन्द्रादिकं सृजति प्रजापतिरिति वैदिकस्य शब्दस्य न कश्चिद्विरोधः। न हि देवदत्तादिशब्दवदिन्द्रादिशब्दाः व्यक्तिविशेषे संकेतपूर्वकाः प्रवृत्ताः; अपि तु गवादिशब्दवदाकृतिविशेषवाचिन इति तेषामपि नित्य एव वाच्यवाचकभावः। वैदिकात् इन्द्रादिशब्दात्तदर्थविशेषं स्मृत्वा कुलालादिरिव घटादिकं प्रजापतिस्सृजतीति कुतोऽवगम्यते? प्रत्यक्षानुमानाभ्यां - श्रुतिस्मृतिभ्यामित्यर्थः। श्रुतिस्तावत् “वेदेन रूपे व्यकरोत्सतासती प्रजापतिः” (तै.ब्रा. २-६-२) तथा “स भूरिति व्याहरत् स भूमिमसृजत” (तै.ब्रा. २-२-२) इत्यादिका। स्मृतिरपि - “सर्वेषाञ्च स नामानि कर्माणि च पृथक् पृथक्। वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे॥” (म.स्मृ. १-२१), “नाम रूपञ्च भूतानां कृत्यानाञ्च प्रपञ्चनम्। वेदशब्देभ्य एवादौ देवादीनां चकार सः॥” (वि.पु. १-५-६३) इत्यादिका॥२७॥

अत एव च नित्यत्वम्।
यतः प्रजापतिः वैदिकाच्छब्दादर्थाकारं स्मृत्वा तदाकारं सर्वं सृजति, अतश्च वसिष्ठविश्वामित्रादीनां मन्त्रसूक्तादिकृत्त्वेऽपि मन्त्रादिमयस्य वेदस्य नित्यत्वं तिष्ठत्येव। प्रजापतिर्हि नैमित्तिकप्रलयानन्तरम् “मन्त्रकृतो वृणीते” (आ.प्र. १-७) “विश्वामित्रस्य सूक्तं भवति” (तै.सं. ५-२-४) इत्यादिवेदशब्देभ्योऽनधीतमन्त्रादिदर्शनशक्तवसिष्ठाद्याकृतिविशेषं स्मृत्वा, वसिष्ठत्वादिपदप्राप्तयेऽनुष्ठितकर्मविशेषांश्चानुस्मृत्य, तदाकारविशेषांस्तान्वसिष्ठादीन् सृजति; ते चानधीत्यैव वेदैकदेशभूतमन्त्रादीन् स्वरतो वर्णतश्चास्खलितान्पठन्ति। तदेषां मन्त्रादिकृत्वेऽपि वेदनित्यत्वमुपपद्यते॥२८॥

प्रजापतिप्रभृतिषु सर्वेषु तत्त्वेष्वव्याकृतपर्यन्तेषु अव्याकृतपरिणामरूपेषु शब्दमयेषु वेदेषु च विनष्टेष्वव्याकृतसृष्ट्यावृत्तौ कथं वेदस्य नित्यत्वमित्यत्र आह -
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च। (१-३-२९)
अव्याकृतसृष्ट्यावृत्तावपि सृज्यानां समाननामरूपत्वादेव न कश्चिद्विरोधः। आदिसर्गेऽपि हि परमपुरुषः पूर्वसंस्थानं जगत्स्मरन् तथैव सृजति। वेदांश्च पूर्वानुपूर्वीविशिष्टानाविष्कृत्य हिरण्यगर्भाय ददातीति। पूर्वसंस्थानमेव जगत्सृजतीति कथमवगम्यते? दर्शनात्, स्मृतेश्च। दर्शनं श्रुतिः, “अहोरात्राणि विदधद्विश्वस्य मिषतो वशी, सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्। दिवं च पृथिवीं चान्तरिक्षमथो सुवः” (तै.आ. ६.१.९) इति। “यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै” (श्वे.उ. ६-१८) इति च। स्मृतिरपि - “यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानि तान्येव तथा भावा युगादिषु॥” (वि.पु. १-५-६५) इति। एतदेव वेदस्य नित्यत्वम् - यत्पूर्वपूर्वोच्चारणक्रमविशेषं स्मृत्वा तेनैव क्रमेणोच्चार्यत्वम्, परमपुरुषोऽपि स्वस्वरूपस्वाराधनतत्फलयाथात्म्यावबोधि वेदं स्वस्वरूपवन्नित्यमेव पूर्वानुपूर्वीविशिष्टं स्मृत्वाऽऽविष्करोति। अतो देवादीनां ब्रह्मविद्याधिकारे न कश्चिद्विरोधः॥२९॥
॥इति प्रमिताधिकरणगर्भे देवताधिकरणम्॥