23 प्रमिताधिकरणम्

शब्दादेव प्रमितः।
कठवल्लीष्वाम्नायते “अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति। ईशानो भूतभव्यस्य न ततो विजुगुप्सते। एतद्वैतत्” (कठ.उ. ३-४-१२), उत्तरत्र च “अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः” (कठ.उ. २-४-१३), तथोपरिष्टात् “अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः” (कठ.उ. ३-६-१७) इति। अत्राङ्गुष्ठप्रमितो जीवात्मा, उत परमात्मेति संशयः। जीवात्मेति पूर्वः पक्षः, अन्यत्र स्वीकृतस्पष्टजीवभावे पुरुषे अङ्गुष्ठप्रमितत्वश्रुतेः “प्राणाधिपस्सञ्चरति स्वकर्मभिः। अङ्गुष्ठमात्रो रवितुल्यरूपः” (श्वे.उ. ५-७-८) इति। राद्धान्तस्तु - तत्र “स्वकर्मभिः” इति जीवभावनिश्चयवदत्रापि, “ईशानो भूतभव्यस्य” (कठ.उ. २-४-१२) इति भूतभव्येशितृत्वदर्शनात् परमात्मैवेति। सूत्रार्थस्तु - शब्दादेव प्रमितः - अङ्गुष्ठप्रमितः परमात्मैव, “ईशानो भूतभव्यस्य” (कठ.उ. २-४-१२) इति परमात्मवाचिशब्दात्॥२३॥

कथमनवच्छिन्नस्य परमात्मनोऽङ्गुष्ठप्रमितत्वमित्याशङ्क्याह -
हृद्यपेक्षया तु मनुष्याधिकारत्वात्।
उपासनार्थमुपासकहृदये वर्तमानत्वात्, उपासकहृदयस्याङ्गुष्ठमात्रत्वात् तदपेक्षयेदमङ्गुष्ठप्रमितत्वम्। मनुष्याणामेवोपासकत्वसंभावनया मनुष्यानधिकृत्य प्रवृत्तत्वाच्छास्त्रस्य मनुष्यहृदयापेक्षयेदमुक्तम्। स्थितं तावदुत्तरत्र समापयिष्यते॥२४॥
॥इति प्रमिताधिकरणभागः॥

प्रासङ्गिकं परिसमाप्य प्रकृतं परिसमापयति -
कम्पनात्।
अङ्गुष्ठप्रमितप्रकरणमध्ये “यदिदं किञ्च जगत्सर्वं प्राण एजति निस्सृतम्। महद्भयं वज्रमुद्यतम्” (कठ.उ. ६-३) “भयादस्याग्निस्तपति” (कठ.उ. ६-३) इत्यादौ प्राणशब्दनिर्दिष्टाङ्गुष्ठप्रमितजनितभयनिमित्तादग्निवायुसूर्यप्रभृतिकृत्स्नजगत्कम्पनाच्छ्रूयमाणादङ्गुष्ठप्रमितः परमात्मैवेति निश्चीयते॥४०॥

ज्योतिर्दर्शनात्।
अस्मिन्नेव प्रकरणे तत्संबन्धितया “न तत्र सूर्यो भाति” (कठ.उ. ५-१५) इत्यारभ्य “तस्य भासा सर्वमिदं विभाति” (कठ.उ. ५-१५) इति सर्वेषां छादकस्यानवधिकातिशयस्य भाश्शब्दाभिहितस्य ब्रह्मभूतस्य परस्य ज्योतिषो दर्शनाच्च अङ्गुष्ठप्रमितः परमात्मा॥४१॥
॥इति प्रमिताधिकरणम्॥