दहर उत्तरेभ्यः।
छान्दोग्ये “अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्” (छा.उ. ८-१-१) इत्यत्र हृदयपुण्डरीकमध्यवर्ती दहराकाशश्श्रूयमाणः किं भूताकाशः? उत जीवः? अथ परमात्मा - इति संशयः। प्रथमं तावद्भूताकाश इति युक्तमाश्रयितुमिति पूर्वः पक्षः; आकाशशब्दस्य भूताकाशे प्रसिद्धिप्राचुर्यात्, आकाशान्तर्वर्तिनोऽन्यस्यान्वेष्टव्यताप्रतीतेश्च। राद्धान्तस्तु - “किं तदत्र विद्यते यदन्वेष्टव्यम्” (छा.उ. ८-१-२) इति चोदिते, “यावान्वा अयमाकाशः” (छा.उ. ८-१-३) इत्यारभ्य, “एतत्सत्यं ब्रह्मपुरम्” (छा.उ. ८-१-५) इत्यन्तेन दहराकाशस्यातिमहत्त्वसर्वाश्रयत्वाजरत्वसत्यत्वाद्यभिधाय, “अस्मिन्कामास्समाहिताः” (छा.उ. ८-१-५) इत्याकाशान्तर्वर्तिनोऽन्वेष्टव्याः कामा इति प्रतिपाद्य, कोऽयं दहराकाशशब्दनिर्दिष्टः? के तदाश्रयाः कामाः? इत्यपेक्षायाम्, “एष आत्माऽपहतपाप्मा” (छा.उ. ८-१-५) इत्यारभ्य, “सत्यसङ्कल्पः” (छा.उ. ८-१-५) इत्यन्तेन आकाशशब्दनिर्दिष्टः आत्मा, कामाश्चापहतपाप्मत्वादयस्तद्विशेषणभूता इति प्रतिपादयद्वाक्यमपहतपाप्मत्वादिविशिष्टपरमात्मानमाह। उपक्रमे चान्वेष्टव्यतया प्रतिज्ञात आकाशः आत्मा, एतद्विशेषणभूताः “अपहतपाप्मत्वादयः कामा इति वाक्यं ज्ञापयत् “अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान् तेषां सर्वेषु लोकेषु कामचारो भवति” (छा.उ. ८-१-६) इत्युपसंहरति। अतोऽयं दहराकाशोऽपहतपाप्मत्वादिविशिष्टः परमात्मेति निश्चीयते, न भूताकाशादिरिति॥ एवं तर्ह्यस्मिन्वाक्ये “अथ य एष संप्रसादोऽस्माच्छरीरात्समुत्थाय” (छा.उ. ८-३-४) इति प्रत्यगात्मप्रतीतेः, तस्य चोत्तरत्र प्रजापतिवाक्येऽपहतपाप्मत्वादिगुणकत्वावगमात्, प्रत्यगात्मैव दहराकाश इति पूर्वपक्षी मन्यते। राद्धान्ती तु - प्रत्यगात्मा कर्मपरवशतया जागरितस्वप्नसुषुप्त्याद्यवस्थाभिः तिरोहितापहतपाप्मत्वादिकः परमात्मानमुपसंपन्नः तत्प्रसादादाविर्भूतगुणकः प्रजापतिवाक्ये प्रतिपादितः। दहराकाशस्त्वतिरोहितनिरुपाधिकापहतपाप्मत्वादिकः प्रत्यगात्मन्यसंभावनीयजगद्विधरणसमस्तचिदचिद्वस्तुनियमनाद्यनन्तगुणकः प्रतिपन्न इति नायं प्रत्यगात्मा दहराकाशः, अपि तु परमात्मैवेति मन्यते। सूत्रार्थस्तु - दहराकाशः परं ब्रह्म, उत्तरेभ्यः - उत्तरवाक्यगतेभ्योऽपहतपाप्मत्वादिपरमात्मासाधारणधर्मेभ्यो हेतुभ्यः॥१३॥
गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गञ्च।
अस्मिन्दहराकाशे सर्वासां प्रजानामजानतीनामहरहर्या गतिश्श्रूयते, यश्च दहराकाशावमर्शरूपैतच्छब्दसमानाधिकरणतया प्रयुक्तो ब्रह्मलोकशब्दः, ताभ्यां दहराकाशः परं ब्रह्मेत्यवगम्यते, “तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमास्सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः” (छा.उ. ८-३-४) इति। तथा हि दृष्टम् - तथा ह्यन्यत्र परस्मिन्ब्रह्मण्येवंरूपं गमनं दृष्टम् - “एवमेव खलु सोम्येमास्सर्वाः प्रजास्सति संपद्य न विदुस्सति संपत्स्यामह इति” (छा.उ. ६-९-२) इति, “सत आगम्य न विदुस्सत आगच्छामह इति” (छा.उ. ६-१०-२) इति। तथा ब्रह्मलोकशब्दश्च परस्मिन्ब्रह्मण्येव दृष्टः - “एष ब्रह्मलोकस्सम्राडिति होवाच” (बृ.उ. ६-३-३३) इति । लिङ्गञ्च - मा भूदन्यत्र दर्शनम्, अस्मिन् प्रकरणे सर्वासां प्रजानां श्रूयमाणमहरहर्गमनं, ब्रह्मलोकशब्दश्च दहराकाशस्य परमात्मत्वे पर्याप्तं लिङ्गम्। चशब्दोऽवधारणे। एतदेव पर्याप्तमित्यर्थः॥१४॥
धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः।
अस्य धृत्याख्यस्य परमात्मनो महिम्नः अस्मिन् दहराकाशे उपलब्धेरयं परमात्मा। धृतिः - जगद्विधरणं परमात्मनो महिमेत्यन्यत्रावगम्यते। “एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय” (बृ.उ. ६-४-२२) इति। सा चास्मिन्दहराकाशे उपलभ्यते “अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय” (छा.उ. ८-४-१) इति॥१५॥
प्रसिद्धेश्च।
“को ह्येवान्यात्कः प्राण्यात्। यदेष आकाश आनन्दो न स्यात्” (तै.उ.आन. ७), “सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते” (छा.उ. १.९.१) इत्यादिष्वाकाशशब्दस्य परस्मिन्ब्रह्मणि प्रसिद्धेः। आकाशशब्द एव परमात्मधर्मविशेषितो भूताकाशशङ्कां निवर्तयतीत्यर्थः॥१६॥
इतरपरामर्शात् स इति चेन्नासम्भवात्।
परमात्मन इतरः जीवः; “अथ य एष संप्रसादोऽस्माच्छरीरात्समुत्थाय” (छा.उ. ८.३.४) इति जीवस्य परामर्शात्स एव दहराकाश इति चेत् - तन्न, पूर्वोक्तानां गुणानां तस्मिन्नसंभवात्॥१७॥
उत्तराच्चेदाविर्भूतस्वरूपस्तु।
उत्तरात् - प्राजापतिवाक्यात्, अपहतपाप्मत्वादिगुणको जीवोऽवगम्यत इति चेत् - तन्न, जागरिताद्यवस्थाभिरनादिकालप्रवृत्ताभिः पुण्यपापरूपकर्ममूलाभिः तिरोहितगुणकः परब्रह्मोपासनजनिततदुपसंपत्त्याऽऽविर्भूतस्वरूपोऽसौ जीवः तत्र प्रजापतिवाक्येऽपहतपाप्मत्वादिगुणकः कीर्तितः। दहराकाशस्त्वतिरोहितस्वरूपोऽपहतपाप्मत्वादिगुणक इत्यस्मिन्दहराकाशे न जीवशङ्का॥१८॥
दहरवाक्ये जीवपरामर्शः किमर्थमिति चेत्, तत्राह -
अन्यार्थश्च परामर्शः। (१-३-१९)
“अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते” (छा.उ. ८.३.४) इति परंज्योतिस्स्वरूपदहराकाशोपसंपत्त्याऽस्य जीवस्यानृततिरोहितस्वरूपस्य स्वरूपाविर्भावो भवतीति दहराकाशस्य जगद्विधरणादिवज्जीवस्वरूपाविर्भावापादनरूपसंपद्विशेषप्रतिपादनार्थो जीवपरामर्शः॥१९॥
अल्पश्रुतेरिति चेत्तदुक्तम्।
“दहरोऽस्मिन्” (छा.उ. ८.१.१) इत्यल्पपरिमाणश्रुतिराराग्रोपमितस्य जीवस्यैवोपपद्यते, न तु सर्वस्माज्ज्यायसो ब्रह्मण इति चेत्, तत्र यदुत्तरं वक्तव्यम्, तत्पूर्वमेवोक्तम् - “निचाय्यत्वात्” (ब्र.सू. १-२-७) इत्यनेन॥२०॥
अनुकृतेस्तस्य च।
अनुकृतिः - अनुकारः; तस्य परमात्मनोऽनुकाराद्धि जीवस्याविर्भूतस्वरूपस्यापहतपाप्मत्वादिगुणकत्वम्। अतोऽनुकर्तुः जीवादनुकार्यः परब्रह्मभूतो दहराकाशोऽर्थान्तरभूत एव। तदनुकारश्च तत्साम्यापत्तिः श्रूयते “यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्। तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति॥” (मुं.उ. ३.१.३) इति॥२१॥
अपि स्मर्यते।
स्मर्यते च तदुपासनात्तत्साम्यापत्तिरूपानुकृतिर्जीवस्य, “इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च॥” (भ.गी. १४-२) इति॥२२॥
॥इति दहराधिकरणम्॥