21 ईक्षतिकर्माधिकरणम्

ईक्षतिकर्म व्यपदेशात् सः ।
आथर्वणिकानां सत्यकामप्रश्ने, “यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत” (प्र.उ. ५-५) इत्यारभ्य, “स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते” (प्र.उ. ५-५) इत्यत्र, ध्यायतीक्षतिकर्मतया व्यपदिष्टः परः पुरुषः किं हिरण्यगर्भः? उत परब्रह्मभूतः पुरुषोत्तम इति संशयः । हिरण्यगर्भ इति पूर्वः पक्षः । पूर्वत्रैकमात्रं प्रणवमुपासीनस्य मनुष्यलोकप्राप्तिं फलम्, द्विमात्रमुपासीनस्यान्तरिक्षलोकप्राप्तिञ्च फलमभिधाय, अनन्तरं “यः पुनरेतं त्रिमात्रेण” (प्र.उ. ५-५) इति त्रिमात्रं प्रणवमुपासीनस्य फलत्वेनोच्यमानब्रह्मलोकस्थपुरुषेक्षणकर्मभूतश्चतुर्मुख एवेति विज्ञायते, मनुष्यलोकान्तरिक्षलोकसाहचर्यात् ब्रह्मलोकोऽपि क्षेत्रज्ञलोक इति निश्चयात् । राद्धान्तस्तु - “परात्परं पुरिशयं पुरुषमीक्षते” (प्र.उ. ५-५) इतीक्षतिकर्मतया निर्दिष्टपुरुषविषये श्लोके “तमोङ्कारेणैवायतनेनान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परञ्च” (प्र.उ. ५-७) इति निरुपाधिकशान्तत्वामृतत्वादिव्यपदेशात्परमात्मैवायमिति निश्चीयते । एवं परमात्मत्वे निश्चिते ब्रह्मलोकशब्दश्च तत्स्थानमेवाभिदधातीत्यवगम्यते । तद्विषयतयोदाहृते च श्लोके “यत्तत्कवयो वेदयन्ते” (प्र.उ. ५-७) (“तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः” (सुबा.उ. ६)) इत्येवमादिभिः सूरिभिर्दृश्यत्ववचनं तदेव द्रढयति । सूत्रार्थस्तु - ईक्षतिकर्म सः - परमात्मा, ध्यायतीक्षत्योरेकविषयत्वेन ध्यायतिकर्मापि स एवेत्यर्थः; व्यपदेशात् - तद्विषयतया “शान्तमजरममृतमभयं परञ्च” इति परमात्मधर्माणां व्यपदेशात् ॥१२॥
॥इति ईक्षतिकर्माधिकरणम्॥