20 अक्षराधिकरणम्

अक्षरमम्बरान्तधृतेः ।
वाजिनां गार्गिप्रश्ने “स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायम्” (बृ.उ. ५-८-७) इत्यत्राक्षरशब्दनिर्दिष्टं प्रधानं, जीवो वा? उत परमात्मा? इति संशयः । प्रधानम्, जीवो वा; न परमात्मेति पूर्वः पक्षः । “कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च” (बृ.उ. ५-८-६) इत्युक्ते, आकाशाधारतयोच्यमानमक्षरं प्रधानम्, जीवो वा; प्रधानस्य विकाराधारत्वात्, जीवस्याचिद्वस्त्वाधारत्वात्; न परमात्मा - इति । राद्धान्तस्तु - “यदूर्ध्वं गार्गि दिवः” (बृ.उ. ५-८-६) इत्यारभ्य, कालत्रयवर्तिनः कृत्स्नस्याधारतया निर्दिष्ट आकाशोऽव्याकृतमेव; न वायुमानाकाशः । ततः पश्चात् “कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च” (बृ.उ. ५-८-६) इति पृष्टे, तदाधारतयोच्यमानमेतदक्षरं न प्रधानं भवितुमर्हति । नापि जीवः, “एतस्य वा अक्षरस्य प्रशासने गार्गि; सूर्याचन्द्रमसौ विधृतौ तिष्ठतः” (बृ.उ. ५-८-८) इत्यारभ्य प्रशासनात्सर्वाधारत्वश्रुतेः । सूत्रार्थस्तु - “एतद्वै तदक्षरं गार्गि” (बृ.उ. ५-८-७) इति निर्दिष्टमक्षरं परमात्मा, अम्बरान्तधृतेः - अम्बरम् - वायुमानाकाशः, अम्बरान्तः - अम्बरपारभूतम्, अम्बरकारणमिति यावत् । कारणापत्तिरेव हि कार्यस्यान्तः । स चाम्बरान्तः अव्याकृतं प्रधानम्, तस्य धृतेः - धारणात् । अव्याकृतस्यापि धृतेरक्षरं परमात्मैवेत्यर्थः ॥९॥

एवं तर्हि जीवो भवितुमर्हति, तस्य प्रधानधृत्युपपत्तेरित्याशङ्क्याह -
सा च प्रशासनात् ।
सा च - अम्बरान्तधृतिः, “एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ” (बृ.उ. ५-८-८) इति प्रशासनात् श्रूयते । प्रशासनम् - प्रकृष्टं शासनम्, अप्रतिहताज्ञा । न चाप्रतिहताज्ञया कृत्स्नस्य चिदचिदात्मकस्य जगतो धृतिर्जीवे उपपद्यते; अतो न जीवः ॥१०॥

अन्यभावव्यावृत्तेश्च।
अन्यभावः - अन्यत्वम्, अस्याक्षरस्य परमपुरुषादन्यत्वं व्यावर्तयति वाक्यशेषः, “अदृष्टं द्रष्टृ” (बृ.उ. ५-८-९) इत्यादिना सर्वैरदृष्टमेतदक्षरं सर्वस्य द्रष्ट्रित्यादिप्रधानजीवासंभावनीयार्थप्रतिपादनात्॥११॥
॥ इति अक्षराधिकरणम्॥